2023-06-05 16:40:28 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
पेट इति स्तूयमान मन्जसम्भवादिभिरिन्दिरारमणो वासुकिमिदम-
वादीत् । 'वत्स वासुकै नः वक्तव्यमिदं त्वया ।
परिजानतैव हि भक्तिमियतीमपि मया प्रतिष्ठापितोऽसि
प्रथमभुवनाधिपत्ये । तदिदानीं माहेश्वरं धनुरनुस्पृश्य सम्पादितं यशो
'माहेश्वरं गिरिमिमं प्रदक्षिणीकृत्य परिवर्धयेत्यादिशामि ।
तेजसाऽऽप्याययिष्यामि दिव्येन त्वामसंशयम् ।
कामं वेष्टय मन्थाद्रि कर्षन्तु त्वां सुरासुराः ॥ ७२ ॥
"
शिक्षादिवेदाङ्गैः किमित्यर्थः । पुराणेन स्कान्दादिना वा किम् । वेद-
शास्त्रादिभिर्यद्यद्भवति तत्सर्वस्यापि भगवच्चरणारविन्दभक्तचैव सम्भवातैस्साध्यं न
"भवतीति भावः ॥ इतीति । इति इत्थं अब्जसम्भवो ब्रह्मा आदिर्येषां
तैः स्तूयमानं स्तुतिभाजनी क्रियमाणं वासुकि सर्पराजम् इन्दिरारमणः श्रीपति-
विष्णुरिदं वचनमवादीदभाणीदित्यर्थः ॥ वत्सेति ॥ हे वत्स वासुके त्वया इदं
न वक्तव्यं अभक्तविषयत्वात् पूर्वोक्तवचनस्येति भावः ॥ परीति ॥
इयतीमेतावतीमपि भक्ति मयि तवानुरागमित्यर्थः । 'पूज्येष्वनुरागो भक्ति: '
इति महोपाध्यायुवचनात् । परिजानता जानानेनैव मया प्रथमभुवनं पाताळं
तस्याधिपत्ये प्रतिष्ठितः निक्षिप्तः तदिदानीं त्रिपुरसंहारकाल इत्यर्थः । माहेश्वरं
परमेश्वरसम्बन्धि धनुः मेरुपर्व॑तरूपमिति भावः । अनुस्पृश्य स्पृष्ट्वा सम्पादितम्
आसादितमित्यर्थः । ज्यारूपत्वात्तवेति भावः । यशः कीर्ति माहेश्वरं महेश्वर-
सम्बन्घ्निमित्यर्थः। तदावासत्वात्तस्येति भावः । इमं गिरिं एतं मन्दरं
प्रदक्षिणीकृत्य वेष्टयित्वेति भावः । परिवर्धय वृद्धि प्रापय इति इत्थं
15 D
?
आदिशामि कथयामि इत्यर्थः । ममात्यन्तभक्तत्वात्तवेति भावः ॥ तेजसेति ॥
दिव्येन श्लाघ्येन, तेजसा प्रभावेन, दीप्तया बलेनेति वाऽर्थः । 'तेज: प्रभावे
दीप्तौ च बले शुक्रेऽप्यथ त्रिषु' इत्यमरः । आप्याययिष्यामि विगततापं
करिष्यामि इत्यर्थः । अत्रार्थे असंशयं संशयो नास्ति इत्यर्थः । मन्थश्चा-
सावद्रिश्चेति कर्मधारयः । तथाभूतमद्रिम् । अत्र मन्थपदेन मन्थनोप-
योगिदण्ड इति बोध्यम् । तदुक्तममरेण 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डकः'
1. माहेश्वरगिरिप्रदक्षिणीकरणमेव प्रथमं श्रेयः, पञ्चात्सुधालाभ: इत्याशयः ।