2023-08-15 07:16:29 by Bharadwajraki
This page has been fully proofread twice.
भगवन्नशिक्षितोऽस्मि शेष इव व्याकरणे, अनभियुक्तोऽस्मि पद्म इव पाञ्चरात्रे, अकृतश्रमोऽस्मि कम्बळाश्वतराविव गान्धर्वे, केवलमहं भगवतो मेरुधन्वनस्सायकसन्धानावसरसम्पन्नं भवतश्चरणारविन्दविन्यासभाग्यं परिशीलयन्नान्तरेण करणेन, परिपालयन् भवच्छासनम्, आकाङ्क्षन् भवतो नियोगानुग्रहमासे भवदधीनः' इति । तदनु च ।
'किं तन्त्रैः किं मन्त्रैः किं व्याकरणेन किं पुराणेन ।
चराणाम्बुजे निमग्ना धिषणा यदि पद्मनाभस्य ॥ ७१ ॥'
[commentary]
नीराजनान्यारार्तिकाः तैः अरविन्दनाभस्य श्रीहरेः चरणारविन्दं पादकमलमाराधयामास आनर्चेत्यर्थः । इदं चाहेति योजना ॥ भगवन्निति ॥ हे भगवन् [^१]शेष इव व्याकरणे व्याकरणशास्त्रे शिक्षितो नास्मि न भवामि । शेषेणेव स्वेन ग्रन्थाकरणादिति भावः । पद्मः पद्माख्यनाग इव पाञ्चरात्रे पाञ्चरात्रागमे कृतः श्रमोऽभ्यासो येन स तथाभूतः नास्मि । तेनेव स्वेन पाञ्चरात्रप्रकाशीकरणाभावादिति भावः । कम्बळाश्वतराविव कम्बळसंज्ञिकाश्वतरसंज्ञिकनागाविव
गान्धर्वे सामवेदोपवेदे अकृतश्रमोऽस्मीति योजना । ताभ्यामिव स्वेन भगवच्चरित्रगानस्याकरणादिति भावः । अहं भगवतः अप्रच्युतैश्वर्यशालिनः मेरुः धनुर्यस्य स तथाभूतस्य परमेश्वरस्य त्रिपुरसंहारकाल इति भावः । सायको बाणः । 'शरे खड्गे च सायकः' इत्यमरः । तस्य सन्धानं सन्धुक्षणं तस्यावसरः
समयः तस्मिन् सम्पन्नं लब्धं भगवतो भवत इति शेषः । चरणारविन्दयोर्विन्यासः स्थापनमेव भाग्यं केवलं सौभाग्यमेवेत्यर्थः । बाणरूपत्वाद्भवत इति भावः । आन्तरेण करणेन अन्तःकरणेन परिशीलयन् ध्यायन् सन् भगवतश्शासनं प्रथमभुवनाधिपत्यलक्षणामाज्ञां परिपालयन्ननुतिष्ठन् भवतो नियोगो निदेशः स एवानुग्रहः प्रसादः तमाकाङ्क्षन्निच्छन् भवतोऽधीनः वशवर्ती सन् आसे तिष्ठामीत्याहेति पूर्वेणान्वयः । अथ निष्कृष्टार्थमाह ॥ किमिति ॥ पद्मनाभस्य तव चरणाम्बुजे पादारविन्दे धिषणा बुद्धिः न मग्ना न संसक्ता यदि तन्त्रैः पाञ्चरात्रादिभिः किं प्रयोजनम् । मन्त्रैः प्रणवादिभिः किं । व्याकरणेन, इदमुपलक्षणं,
[^१] सर्पजातीनां तत्र तत्र कलायां कौशलं स्मारयति कविः "शेष इव व्याकरणे" -- इत्यादिना ।