2023-08-15 06:58:22 by Bharadwajraki
This page has been fully proofread twice.
यापचया परिणतशरकाण्डपाण्डरा च भोगयष्टिरभिपूरयितुं दुग्धसागरमापतिता विदूरादुच्छृङ्खलतरङ्गमालासमाकुला स्तब्धेव सिद्धनदी सुरासुरैरालुलोके ।
क्षितिधरपरिपातक्षुभ्यम्भोधिगर्भ-
प्रचलदमृतबिन्दुस्यन्दसान्द्रैस्समीरैः ।
फणिपतिरपनीतस्वेदखेदो ददर्श
त्रिजगदनभिवेद्य देवमाद्ययं मुकुन्दम् ॥ ७० ॥
प्रणिपतन्नथ वासुकिः फणामणिप्रकाशधारानीराजनैराराधयामास[^१] चरणारविन्दमरविन्दनाभस्य, आह चेदम् ।
[commentary]
प्राप्तवतः इत्यर्थः । 'वासुकेस्सर्पराजस्य अतिक्रान्ताः वेलामतिवेलाः निर्मर्यादा इत्यर्थः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि' इत्यमरः । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया’ इति समासः । तथाभूता याः श्वासानां परम्पराः पङ्क्तयः ताभिः परिणमन्तौ प्रादुर्भवन्तौ उपचयापचयौ वृद्धिह्रासौ यस्यास्सा । किञ्च परिणतः परिपक्वः स्थौल्यं प्राप्तो वा यश्शरस्य तृणस्य काण्डो दण्डः तद्वत्पाण्डुरा
धवळा । 'शरो दध्याद्यग्रसारे बाणे काण्डे तृणान्तरे' इति भास्करः । भोगयष्टिः दण्डसदृशः काय इत्यर्थः । दुग्धसागरं क्षीरसमुद्रम् अभिपूरयितुं पूर्तिं कर्तुं, विदूराद्बहुदूरादापतिता आयाता उच्छृङ्खलाः निर्निरोधाः ये तरङ्गाः तेषां मालाभिः समाकुला सङ्कुला स्तब्धा निश्चला सिद्धनदी गङ्गेव सुरासुरैः आलुलोके दृष्टेत्यर्थः ॥ क्षितीति ॥ क्षितिधरो मन्दरस्तस्य परिपातेन परिपतनेन क्षुभ्यन् तारळ्यलक्षणक्षोभं प्राप्नुवन् योऽम्भोधेर्गर्भः कुक्षिदेशः, तस्मात् प्रचलन्तो येऽमृतस्य बिन्दवः तेषां स्यन्दः प्रवहणं तेन सान्द्रैः मेदुरैः समीरैर्वायुभिः अपनीतौ निवर्तितौ स्वेदखेदौ घर्मोदकश्रमौ यस्य स तथाभूतः फणिपतिः वासुकिः त्रिजगता त्रिभुवनेन अनभिवेद्य वेदितुमशक्यम्, आद्यं कारणभूतं देवं प्रकाशमानं मुकुन्दं श्रीहरिं ददर्श दृष्टवानित्यर्थः ॥ अथेति ॥ अथ श्रीहरिदर्शनानन्तरं वासुकिः प्रणिपतन्नमस्कारं कुर्वन् सन् फणामणीनां ये प्रकाशा दीप्तयः तेषां धारा अविच्छेदा एव
[^१] खेदापनयने, हरिदर्शनम्, दर्शनानन्तरं प्रणिपातः, ततः नीराजनानन्तरमाराधनं च कार्यमिति सूचयति ॥
क्षितिधरपरिपातक्षुभ्यम्भोधिगर्भ-
प्रचलदमृतबिन्दुस्यन्दसान्द्रैस्समीरैः ।
फणिपतिरपनीतस्वेदखेदो ददर्श
त्रिजगदनभिवेद्य देवमाद्