This page has been fully proofread once and needs a second look.

नीलकण्ठ विजये सिव्याख्याने
 
यापचया परिणतशरकाण्डपाण्ड्स चेडरा च भोगयष्टिरभिपूरयितुं दुग्धसागर-
मापतिता विदूरादुच्छृङ्खलतरङ्गमालासमाकुला स्तब्धेव सिद्धनदी सुरा-
सुरैरालुलोके ।

 
क्षितिधरपरिपातक्षुभ्यम्भोधिगर्भ-

प्रचलदमृतबिन्दुस्यन्दसान्द्रैस्समीरैः ।

फणिपतिरपनीतस्वेदखेदो ददर्श
 

त्रिजगंदनभिवेद्य देवमाद्य मुकुन्दम् ॥ ७० ॥
 

 
प्रणिपतन्त्रथ वासुकिः फणामणिप्रकाशधारानीराजनैराराधयामास'
[^१] चरणारविन्दमरविन्दनाभस्य, आह चेदम् ।
 

 
[commentary]
 
प्राप्तवतः इत्यर्थः । 'वासुकेस्सर्पराजस्य अतिक्रान्ता:ताः वेलामतिवेलाः निर्मर्यादा
इत्यर्थः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ' इत्यमरः । 'अत्यादयः
क्रान्ताद्यर्थे द्वितीयया इति समासः । तथाभूता यायाः श्वासानां परम्पराः पङ्क्तयः
ताभिः परिणमन्तौ प्रादुर्भवन्तौ उपचयापचयौ वृद्धिहाह्रासौ यस्यास्सा । किञ्च
परिणतः परिपकःक्वः स्थौल्यं प्राप्तो वा यश्शरस्य तृणस्य काण्डो दण्डः तद्वत्पाण्डुरा

वळा । 'शरो दध्याद्यग्रसारे बाणे काण्डे तृणान्तरे' इति भास्करः । भोगयष्टिः
दण्डसद्दश:दृशः काय इत्यर्थः । दुग्धसागरं क्षीरसमुद्रम् अभिपूरयितुं पूर्तितिं कर्तुतुं,
विदूराद्हुदूरादापतिता आयाता उच्छृङ्खलाः निर्निरोधाः ये तरङ्गाः तेषां मालाभिः
समाकुला सङ्कुला स्तब्धा निश्चला सिद्धनदी गङ्गे सुरासुरै:रैः आलुलोके दृष्टेत्यर्थ:
थः ॥ क्षितीति ॥ क्षितिरो मन्दरस्तस्य परिपातेन परिपतनेन क्षुभ्यन् तारळ्यलक्षण-
क्षोभं प्राप्नुवन् योऽम्भोघेधेर्गर्मःभः कुक्षिदेशः, तस्मात् प्रचलन्तो येऽमृतस्य बिन्दवः
तेषां स्यन्द:दः प्रवहणं तेन सान्द्रैः मेदुरैः समीरैर्वायुभिः अपनीतौ निवर्तितौ
स्वेदवेखेदौ घर्मोदकश्रमौ यस्य स तथाभूतः फणिपतिः वासुकि:किः त्रिजगता त्रिभुवनेन
अनभिवेद्य वेदितुमशक्यम्, आद्यं कारणभूतं देवं प्रकाशमानं मुकुन्दं श्रीहरिं ददर्श
दृष्ट्वानित्यर्थः ॥ अथेति ॥ अथ श्रीहरिदर्शनानन्तरं वासुकिकिः प्रणिपतन्
नमस्कारं कुर्वन् सन् फणामणीनां ये प्रकाशा दीप्तयः तेषां धारा अविच्छेदा एव
 

 
1.

 
[^१]
खेदापनयने, हरिदर्शनम्, दर्शनानन्तरं प्रणिपातः, ततः नीराजनानन्तरमा-
राघ
राधनं कार्य मिति सूचयति ॥