2023-06-05 16:40:28 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठ विजये सिव्याख्याने
यापचया परिणतशरकाण्डपाण्ड्स चे भोगयष्टिरभिपूरयितुं दुग्धसागर-
मापतिता विदूरादुच्छृङ्खलतरङ्गमालासमाकुला स्तब्धेव सिद्धनदी सुरा-
सुरैरालुलोके ।
क्षितिधरपरिपातक्षुभ्यम्भोधिगर्भ-
प्रचलदमृतबिन्दुस्यन्दसान्द्रैस्समीरैः ।
फणिपतिरपनीतस्वेदखेदो ददर्श
त्रिजगंदनभिवेद्य देवमाद्य मुकुन्दम् ॥ ७० ॥
प्रणिपतन्त्रथ वासुकिः फणामणिप्रकाशधारानीराजनैराराधयामास'
चरणारविन्दमरविन्दनाभस्य, आह चेदम् ।
प्राप्तवतः इत्यर्थः। 'वासुकेस्सर्पराजस्य अतिक्रान्ता: वेलामतिवेलाः निर्मर्यादा
इत्यर्थः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ' इत्यमरः । 'अत्यादयः
क्रान्ताद्यर्थे द्वितीयया इति समासः । तथाभूता या श्वासानां परम्पराः पङ्क्तयः
ताभिः परिणमन्तौ प्रादुर्भवन्तौ उपचयापचयौ वृद्धिहासौ यस्यास्सा । किञ्च
परिणतः परिपकः स्थौल्य प्राप्तो वा यश्शरस्य तृणस्य काण्डो दण्डः तद्वत्पाण्डुरा
घवळा । 'शरो दध्याद्यग्रसारे बाणे काण्डे तृणान्तरे' इति भास्करः । भोगयष्टिः
दण्डसद्दश: काय इत्यर्थः । दुग्धसागरं क्षीरसमुद्रम् अभिपूरयितुं पूर्ति कर्तु,
विदूराद्वहुदूरादापतिता आयाता उच्छृङ्खलाः निर्निरोधाः ये तरङ्गाः तेषां मालाभिः
समाकुला सङ्कला स्तब्धा निश्चला सिद्धनदी गङ्गेब सुरासुरै: आलुलोके दृष्टेत्यर्थ:
॥ क्षितीति ॥ क्षितिघरो मन्दरस्तस्य परिपातेन परिपतनेन क्षुभ्यन् तारळ्यलक्षण-
क्षोभं प्राप्नुवन् योऽम्भोघेर्गर्मः कुक्षिदेशः, तस्मात् प्रचलन्तो येऽमृतस्य बिन्दवः
तेषां स्यन्द: प्रवहणं तेन सान्द्रैः मेदुरैः समीरैर्वायुभिः अपनीतौ निवर्तितौ
स्वेदवेदौ घर्मोदकमौ यस्य स तथाभूतः फणिपतिः वासुकि: त्रिजगता त्रिभुवनेन
अनभिवेद्य वेदितुमशक्यम्, आद्यं कारणभूतं देवं प्रकाशमानं मुकुन्दं श्रीहरिं ददर्श
दृष्ट्वानित्यर्थः ॥ अथेति ॥ अथ श्रीहरिदर्शनानन्तरं वासुकि प्रणिपतन्
नमस्कारं कुर्वन् सन् फणामणीनां ये प्रकाशा दीप्तयः तेषां धारा अविच्छेदा एव
ॐ
1. खेदापनयने, हरिदर्शनम्, दर्शनानन्तरं प्रणिपातः, ततः नीराजनानन्तरमा-
राघनं कार्य मिति सूचयति ॥