2023-08-15 06:46:40 by Bharadwajraki
This page has been fully proofread twice.
प्रत्युद्यातैस्सुरपरिबृढैर्भारविश्रान्तिहेतोः
सार्धं दैत्या भुवि निदधिरे सन्निधौ शार्ङ्गपाणेः ॥६७॥
अथ शिथिलांसमांसळितखेदविनोदकृते
परिकलितांगभङ्गमभितोऽपि वपुर्धुवताम् ।
करचरणोदरांगुळिभुजान्तरकन्धरतो
भुवि भुजगा निपेतुरितरे विबुधद्विषताम् ॥ ६८ ॥
खर्वोन्नतासुरस्कन्धसन्धारणकृतां व्यथाम् ।
वीजितो विबुधैदैत्यैर्विजहौ वासुकिश्शनैः ॥ ६९ ॥
परिश्राम्यतश्च वासुकेरतिवेलश्वासनिःश्वासपरम्परापरिणमदुपच-
[commentary]
विश्रमणं तस्य हेतोः प्रत्युद्यातैः प्रतिमुखमागतैः सुरपरिबृढैः देवैः सार्धम् । 'प्रभौ परिबृढः' (७.२.२१) इति निपातनात्साधुः । 'प्रभुः परिबृढोऽधिपः' इत्यमरः । भुवि शार्ङ्गं धनुः पाणौ यस्य स तथाभूतस्य श्रीहरेः सन्निधौ निकटे निदधिरे निचिक्षिपुः । इतः परं कर्तव्योपदेशनायेति भावः ॥ अथेति ॥ अथ
वासुकिप्रक्षेपानन्तरं शिथिला पीडिताः ये अंसाः भुजशिरांसि तेषु मांसलितः औल्बण्यं प्राप्तः यः खेदः बाधा तस्य विनोदकृते अपनोदनायेत्यर्थः । परिकलितः कृतः अङ्गानाम् अवयवानां भङ्गः खण्डः यस्मिन् कर्मणि तत्तथा । 'भङ्गः खण्डे पराजये । तरङ्गे रोगभेदे च' इति भास्करः । परितस्सर्वतोऽपि वपुश्शरीरं धुवतां धूननं कुर्वतां, विबुधानां द्विषन्तः तच्छत्रवः असुराः तेषां कराश्च चरंणाश्च उदराणि चांगुळ्यश्च भुजान्तराणि च कन्धराश्च करचरणोदरांगुळिभुजान्तरकन्धरं तस्मात्ततः । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् (२.४.२) इति प्राण्यङ्गत्वादेकवद्भावः । भुवि इतरे तक्षकादयो भुजगाः सर्पाः विनिपेतुः ॥ खर्वेति ॥ वासुकिः दैत्यैरसुरैः विबुधैः देवैः, वीजितः ताळवृन्तादिभिरुपचरितस्सन्नित्यर्थः । खर्वो वामनः । 'खर्वो ह्रस्वश्च वामनः' इत्यमरः । उन्नताः औन्नत्यशालिनश्च येऽसुरा दानवाः तेषां स्कन्धेषु, सन्धारणेन वहनेन कृतां प्राप्तां व्यथांथा दुःखम् । 'पीडा बाधा व्यथा दुःखम्' इत्यमरः । शनैर्मन्दं विजहौ विससर्ज । 'ओ हाक् त्यागे' इति धातोः कर्तरि लिट् ॥ परिश्राम्यत इति ॥ परिश्राम्यतः परिश्रमं
सार्धं दैत्या भुवि निदधिरे सन्निधौ शार्ङ्गपाणेः ॥६७॥
अथ शिथिलांसमांसळितखेदविनोदकृते
परिकलितांगभङ्गमभितोऽपि वपुर्धुवताम् ।
करचरणोदरांगुळिभुजान्तरकन्धरतो
भुवि भुजगा निपेतुरितरे विबुधद्विषताम् ॥ ६८ ॥
खर्वोन्नतासुरस्कन्धसन्धारणकृतां व्यथाम् ।
वीजितो विबुधैदैत्यैर्विजहौ वासुकिश्शनैः ॥ ६९ ॥
परिश्राम्यतश्च वासुकेरतिवेलश्वासनिःश्वासपरम्परापरिणमदुपच-
[commentary]
विश्रमणं तस्य हेतोः प्रत्युद्यातैः प्रतिमुखमागतैः सुरपरिबृढैः देवैः सार्धम् । 'प्रभौ परिबृढः' (७.२.२१) इति निपातनात्साधुः । 'प्रभुः परिबृढोऽधिपः' इत्यमरः । भुवि शार्ङ्गं धनुः पाणौ यस्य स तथाभूतस्य श्रीहरेः सन्निधौ निकटे निदधिरे निचिक्षिपुः । इतः परं कर्तव्योपदेशनायेति भावः ॥ अथेति ॥ अथ
वासुकिप्रक्षेपानन्तरं शिथिला पीडिताः ये अंसाः भुजशिरांसि तेषु मांसलितः औल्बण्यं प्राप्तः यः खेदः बाधा तस्य विनोदकृते अपनोदनायेत्यर्थः । परिकलितः कृतः अङ्गानाम् अवयवानां भङ्गः खण्डः यस्मिन् कर्मणि तत्तथा । 'भङ्गः खण्डे पराजये । तरङ्गे रोगभेदे च' इति भास्करः । परितस्सर्वतोऽपि वपुश्शरीरं धुवतां धूननं कुर्वतां, विबुधानां द्विषन्तः तच्छत्रवः असुराः तेषां कराश्च चरंणाश्च उदराणि चांगुळ्यश्च भुजान्तराणि च कन्धराश्च करचरणोदरांगुळिभुजान्तरकन्धरं तस्मात्ततः । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् (२.४.२) इति प्राण्यङ्गत्वादेकवद्भावः । भुवि इतरे तक्षकादयो भुजगाः सर्पाः विनिपेतुः ॥ खर्वेति ॥ वासुकिः दैत्यैरसुरैः विबुधैः देवैः, वीजितः ताळवृन्तादिभिरुपचरितस्सन्नित्यर्थः । खर्वो वामनः । 'खर्वो ह्रस्वश्च वामनः' इत्यमरः । उन्नताः औन्नत्यशालिनश्च येऽसुरा दानवाः तेषां स्कन्धेषु, सन्धारणेन वहनेन कृतां प्राप्तां व्य