This page has been fully proofread once and needs a second look.

तृतीयाश्वासः
 
२५९
 
प्रत्युद्यातैस्सुरपरिबृढैर्भार विश्रान्तिहेतोः
 

सार्धं दैत्या भुवि निदधिरे सन्निधौ शार्ङ्गपाणेः ॥६७॥

 
अथ शिथिलांसमांसळितखेद विनोद कृते

परिकलितांगभङ्गमभितोऽपि वपुर्ध्रुधुवताम् ।

करचरणोदरांगुळिभुजान्तरकन्धरतो
 

भुवि भुजगा निपेतुरितरे विबुधद्विषताम् ॥ ६८ ॥

 
खर्वोन्नता सुरस्कन्धसन्धारणकृतां व्यथाम् ।

वीजितो विबुधैदैत्यैर्विजहौ वासुकिश्शनैः ॥ ६९ ॥
परिश्राम्यत

 
परिश्राम्यतश्
च वासुकेरतिवेलश्वासनिःश्वासपरम्परा परिणमदुपच-

 
[commentary]
 
विश्रमणं तस्य हेतोः प्रत्युद्यातैः प्रतिमुखमागतैः सुरपरिबृढैः देवैः सार्धम् ।
'
'प्रभौ परिबृढ : ढः' ( 7-2-21 ७.२.२१) इति निपातनात्साधु:धुः । 'प्रभुः परिवृबृढोऽधिप:'
पः' इत्यमरः । भुवि शार्ङ्गं धनुः पाणौ यस्य स तथाभूतस्य श्रीहरेः सन्निधौ निकटे
निदुघिदधिरे निचिक्षिपुः । इतः परं कर्तव्योपदेशनायेति भावः ॥ अथेति ॥ अथ

वासु किप्रक्षेपानन्तरं शिथिला पीडिता:ताः ये अंसाः भुजशिरांसि तेषु मांसलितः
ल्बण्यं प्राप्तः यः खेदः बाघाधा तस्य विनोदकृते अपनोदनायेत्यर्थः । परिकलितः
कृतः अङ्गानाम् अवयवानां भङ्गः खण्डः यस्मिन् कर्मणि तत्तथा । 'भङ्गः खण्डे'
पराजये । तरङ्गे रोगभेदे च ' इति भास्करः । परितस्सर्वतोऽपि वपुश्शरीरं
धुवतीतां धूननं कुर्वतां, विबुधानां द्विषन्तः तच्छत्रवः असुराः तेषां कराश्च चरंणाश्च
उदराणि चांगुळ्यश्च भुजान्तराणि च कन्धराश्च करचरणोदरांगुळिभुजान्तरकन्धरं
तस्मात्ततः । 'द्वन्द्श्च प्राणितूर्यसेनाङ्गानाम् ( 2-42२.४.२) इति प्राण्यङ्गत्वा-
देकवद्भावः । भुवि इतरे तक्षकादयो भुजंगा: सर्पा:जगाः सर्पाः विनिपेतुः ॥ खर्वेति ॥
वासुकिः दैत्यैरसुरैः विबुधैः देवैः, वीजितः ताळवृन्तादिभिरुपचरितस्सन्नित्यर्थः ।
खर्वो वामनः । 'खर्वो ह्रस्वश्च वामनः' इत्यमरः । उन्नता:ताः औन्नत्यशालिनश्च
येऽसुरा दानवाः तेषां स्कन्धेषु, सन्धारणेन वहनेन कृतां प्राप्तां व्यथां दुःखम् ।
'पीडा बाधा व्यथा दुःखम्' इत्यमरः । शनैर्मन्दं विजहौ विससर्ज । 'ओ हाक्
त्यागे' इति घाधातोः कर्तरि लिट् ॥ परिश्राम्यत इति ॥ परिश्राम्यतः परिश्रमं