2023-06-05 16:40:28 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
२५९
प्रत्युद्यातैस्सुरपरिबृढैर्भार विश्रान्तिहेतोः
सार्धं दैत्या भुवि निदधिरे सन्निधौ शागपाणेः ॥६७॥
अथ शिथिलांसमांसळितखेद विनोद कृते
परिकलितांगभङ्गमभितोऽपि वपुर्ध्रुवताम् ।
करचरणोदरांगुळिभुजान्तरकन्धरतो
भुवि भुजगा निपेतुरितरे विबुधद्विषताम् ॥ ६८ ॥
खर्वोन्नता सुरस्कन्धसन्धारणकृतां व्यथाम् ।
वीजितो विबुधैदैत्यैर्विजहौ वासुकिश्शनैः ॥ ६९ ॥
परिश्राम्यतच वासुकेरतिवेलश्वासनिःश्वासपरम्परा परिणमदुपच-
विश्रमण तस्य हेतोः प्रत्युद्यातैः प्रतिमुखमागतैः सुरपरिबृढैः देवैः सार्धम् ।
'भौ परिबृढ : ' ( 7-2-21 ) इति निपातनात्साधु: । 'प्रभुः परिवृढोऽधिप:'
इत्यमरः । भुवि शार्ङ्ग धनुः पाणौ यस्य स तथाभूतस्य श्रीहरेः सन्निधौ निकटे
निदुघिरे निचिक्षिपुः । इतः परं कर्तव्योपदेशनायेति भावः ॥ अथेति ॥ अथ
वासु किप्रक्षेपानन्तरं शिथिला पीडिता: ये अंसाः भुजशिरांसि तेषु मांसलितः
औचण्य प्राप्तः यः खेदः बाघा तस्य विनोदकृते अपनोदनायेत्यर्थः । परिकलितः
कृतः अङ्गानाम् अवयवानां भङ्गः खण्डः यस्मिन् कर्मणि तत्तथा । 'भङ्गः खण्डे'
पराजये । तरङ्गे रोगभेदे च ' इति भास्करः । परितस्सर्वतोऽपि वपुश्शरीरं
धुवती धूननं कुर्वतां, विबुधानां द्विषन्तः तच्छत्रवः असुराः तेषां कराश्च चरंणाश्च
उदराणि चांगुळ्यश्च भुजान्तराणि च कन्धराश्च करचरणोदरांगुळिभुजान्तरकन्धरं
तस्मात्ततः । 'द्वन्द्रश्च प्राणितूर्यसेनाङ्गानाम् ( 2-42) इति प्राण्यङ्गत्वा-
देकवद्भावः । भुवि इतरे तक्षकादयो भुजंगा: सर्पा: विनिपेतुः ॥ खर्वेति ॥
वासुकिः दैत्यैरसुरैः विबुधैः देवैः, वीजितः ताळवृन्तादिभिरुपचरितस्सन्नित्यर्थः ।
खर्वो वामनः । 'खर्वो ह्रस्वश्च वामनः' इत्यमरः । उन्नता: औन्नत्यशालिनश्च
येऽसुरा दानवाः तेषां स्कन्धेषु, सन्धारणेन वहनेन कृतां प्राप्तां व्यथां दुःखम् ।
'पीडा बाधा व्यथा दुःखम्' इत्यमरः । शनैर्मन्दं विजहौ विससर्ज। 'ओ हाक्
त्यागे' इति घातोः कर्तरि लिट् ॥ परिश्राम्यत इति ॥ परिश्राम्यतः परिश्रमं