This page has been fully proofread twice.

दूरादलक्ष्यत सुरैर्दनुजांसलग्ना
द्राघीयसी भुजगपुंगवभोगरेखा ।
तिर्यक्प्रवाहमुपयातवतीव दिष्ट्या
मन्दाकिनी निपतिता शिखरे हिमाद्रः ॥ ६६ ॥
 
पायम्पायं पवनमभितरुस्थौल्यमापाद्यमानं
वाहम्वाहं फणधरपतिं विश्लथस्कन्धबन्धाः ।
 
[commentary]
 
तक्षकादीन् अङ्गुलीभिः करशाखाभिः । 'अङ्गुळ्यः करशाखाः स्युः’ इत्यमरः । अङ्गुळीयकानि ऊर्मिका इव । 'अङ्गुळीयकमूर्मिका' इत्यमरः । पादैः नूपुरान् मञ्जीरान् । 'पादांगदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । पाणिभिः कङ्कणानीव । 'कङ्कणं करभूषणम्' इत्यमरः । कटिभिः श्रोणिफलकैः । 'कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती' इत्यमरः । कटिसूत्राणि
मौञ्जीरज्जव इव वक्षसा हारवलयानीव मुक्तासरमण्डलानीवेत्यर्थः । वहन्तः धरन्तस्सन्तः लीलया कीडया । 'क्रीडा लीला च नर्म च' इत्यमरः । तारापथेन अन्तरिक्षरूपेण । 'तारापथोऽन्तरिक्षं च' इत्यमरः । पथा मार्गेण दुग्धोदधिं क्षीरार्णवम्, अभिप्र॒तस्थरे अभिमुखं प्रययुरित्यर्थः ॥ दूरादिति ॥
दनुजानामंसेषु स्कन्धेषु लग्ना स्थिता द्राघीयसी अतिदीर्घा भुजङ्गपुङ्गवो वासुकिः तस्य भोगरेखा कायदण्डः सुरैः इन्द्रादिभिः, दूरात्, हिमाद्रेः शिखरे निपतिता स्रस्ता तिर्यक् प्रवाहः प्रवहनम् । भावे घञ् । तमुपयातवती प्राप्तवती मन्दाकिनी वियद्गङ्गेव [^१]दिष्ट्या आनन्देन । 'दिष्ट्या समुपजोषञ्चेत्यानन्देऽथान्तरेऽन्तरे' इत्यमरः । अदृश्यत दृष्टेत्यर्थः । महाप्रयाससम्पादनीयस्य वासुक्यागमनस्य अनायासलाभादानन्द इति भावः ॥ पायमिति ॥ पवनं वायुं, पायम्पायं पीत्वा
पीत्वेत्यर्थः । अभितः स्थौल्यं स्थूलत्वम्, आपाद्यमानं प्राप्नुवन्तं फणधरपतिं वासुकिं वाहंवाहं धृत्वा धृत्वेत्यर्थः । विश्लथाः विगळितास्स्कन्धानां बन्धाः कीलानि येषां ते तथाभूताः दैत्या दितिपुत्राः । 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' (४.१.८५) इति दितिशब्दादपत्यार्थे ण्यप्रत्ययः । भारो धूः तस्माद्विश्रान्तिः
 
[^१] "दिष्ट्या = आनन्देन, अदृश्यत -- दृष्टा" -- वासुकिलाभादानन्द इति भावः ॥ नात्र दिष्ट्या दैववशात् इत्यर्थः तथा घटते ॥