This page has not been fully proofread.

नीलकण्ठविजये सेव्याख्याने
 
दूरादलक्ष्यत सुरैर्दनुजांसलग्ना
द्राघीयसी भुजगपुंगवभोगरेखा ।
तिर्यक्प्रवाहमुपयातवतीव दि॒िष्ट्या
 
$
 
मन्दाकिनी निपतिता शिखरे हिमाद्रः ॥ ६६ ॥
 
पायम्पाय प्रवनम भितरुस्थौल्यमापाद्यमानं
 
वाहम्वाह फणधरपति विश्लंथस्कन्धबन्धाः ।
 
20
 
19
 
तक्षकादीन् अङ्गुलीभि: करशाखाभिः । 'अगुळ्य: करशाखा: स्युः
इत्यमरः । अङ्गुळीयकानि ऊर्मिका इव । 'अङ्गुळीयकमूर्मिका' इत्यमरः ।
पादै: नू पुरान् मनीरान् । 'पादांगदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः ।
पाणिभिः कङ्कणानीव । कङ्कणं करभूषणम्' इत्यमरः । कटिभिः श्रोणिफलकैः ।
'कटो ना श्रोणिफलकं कटि: श्रोणिः ककुद्मती' इत्यमरः । कटिसूत्राणि
 
>
 
मौज़ीरज्जव इव वक्षसा हारवलयानीव मुक्तासरमण्डलानीवेत्यर्थः । वहन्तः
धरन्तस्सन्तः लीलया कीडय़ा । 'क्रीडा लीला च नर्म च' इत्यमरः ।
तारापर्थेन अन्तरिक्षरूपेण । 'तारापथोऽन्तरिक्षं च' इत्यमरः । पथा मार्गेण
दुग्धोदषि क्षीरार्णवम्, अभिप्र॒तस्थरे अभिमुखं प्रययुरित्यर्थः ॥ दूरादिति ॥
दनुजानामंसेषु स्कन्धेषु लमा स्थिता द्राघीयसी अतिदीर्घा भुजङ्गपुङ्गवो
वासुकिः तस्य भोगरेखा कायदण्ड: सुरैः इन्द्रादिभिः, दूरात्, हिमाद्रेः शिखरे
निपतिता सस्ता तिर्यक् प्रवाह प्रवहनम् । भावे घञ् । तमुपयातवती प्राप्तवती
मन्दाकिनी वियद्गङ्गेव 'दिष्ट्या आनन्देन । 'दिष्ट्या समुपजोषञ्चेत्यानन्देऽथान्तरे-
अन्तरे' इत्यमरः । अदृश्यत दृष्टेत्यर्थः । महाप्रयाससम्पादनीयस्य वासुक्यागमनस्य
अनायासलाभादानन्द इति भावः ॥ पायमितिः ॥ पवनं वायुं, पायम्पायं पीत्वा
पीत्वेत्यर्थः । अभितः स्थौल्यं स्थूलत्वम्, आपाद्यमानं प्राप्नुवन्तं फणधरपतिं वाङ्लुकिं
बाहुंवाहुं धृत्वा धृत्वेत्यर्थः । विश्वयाः विगळितास्कन्धानां बन्धाः कीलानि
येषां ते त्थाभुता 5.
दैत्या दितिपुत्राः । 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः'
(4-1-85) इति दितिशब्दादपत्यार्थे ण्यप्रत्ययः । भारो धूः तस्माद्विश्रान्तिः
 
51. "दिष्टया-आनन्देन, अदृश्यंत दृष्टा - वासुकिलोभादानन्द इति भावः ॥
नाल दिष्टया दैववशात् इत्यर्थः तथा घटते ॥