2023-08-15 06:15:02 by Bharadwajraki
This page has been fully proofread twice.
अथ कथञ्चिदाश्वस्तमहिपुङ्गवमालक्षयन्तो दानवा नगनगरग्रामनदनदीनदीशसन्तानदन्तुरेण भौमेन पथा परिक्रमणम्, आवेद्य मान्द्यहेतुम्, आसाद्य तदनुज्ञाम्, आफणामण्डलादा च वालमूलादुद्धृत्य कराञ्चलैर्युगपदुपनिवेशयन्तः स्कन्धेषु तम्, [^१]अपरान् पुनर्महोरगान् अङ्गुलीभिः अङ्गुळीयकानीव, पादैर्नूपुराणीव, पाणिभिः कङ्कणानीव, वक्षसा हारवलयानीव, वहन्तो तारापथेन दुग्धोदधिमभिप्रतस्थिरे ।
[commentary]
मर्यादाभिविध्योः' (२.१.१३) इत्यनेनोभयत्र पाक्षिकाव्ययीभावसमासाभावः । आयासः श्रमः तस्य योगः सम्बन्धः तस्मात् स्तिमितं निश्चलम्, आर्द्रञ्च वा तत्पतितं शयितं चेति कर्मधारयसमासः । 'आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तञ्च' इत्यमरः । फणधरपतिः वासुकिः तस्य भोगं कायम् । 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । अवनिवलयादग्रमण्डलात्, अतिवेगादतिजवादुद्धृतस्य उत्पाटितस्य, मन्थानाद्रेः मन्दरस्य सम्बन्धीत्यर्थः । भुवि भूमौ लग्नं सङ्गतम्, इदानीमिति शेषः । त्रुटितं छेदं प्राप्तमत एव घटितं प्रथितम् । अथवा पूर्वं त्रुटितं बलाद्देवासुरैरुत्पाटितान्मध्ये छिन्नमिदानीं देवासुरैर्घटितं छिन्नकूपरज्जुवत् ग्रथितमित्यर्थः । समासस्तु स्नातानुलिप्तवत् । एकं मुख्यं मूलं मूलभङ्गमिव अद्राक्षुः ॥ अथेति ॥ अथ पाताळं विहाय भूप्रदेशानयनानन्तरम्, अहिपुङ्गवं वासुकिं कथञ्चित् अतिकृच्छ्रेण आश्वस्तम् आश्वासं प्राप्नुवन्तं व्यर्थत्वात्तस्येति भावः । आलक्षयन्तः पश्यन्तः, दानवाः नगानामद्रीणां नगराणां पुराणां ग्रामाणां
संवसथानां नंदीनां सरितां नदानां पुन्नदीनां नदीशानां समुद्राणां च यानि शतान्यनेकानि तेषां सन्तानाः अविच्छेदाः, सर्वत्र स्थितय इति यावत् । 'सन्तानाः स्युरविच्छित्तिवंशापत्यसुरद्रुमाः' इत्यमरशेषः । तैः दन्तुरेण निम्नोन्नतेन, व्याप्तेनेति वाऽर्थः । भूमौ भवः भौमः तथाभूतेन पथा मार्गेण परिक्रमणं गमनम् । परिपूर्वात् 'क्रमु पादविन्यासे' इति धार्तोर्भावे ल्युट्प्रत्ययः । मान्द्यं शैघ्र्यराहित्यं
तस्य हेतुं कारणमित्यावेद्य विज्ञाप्य, तस्य वासुकेरनुज्ञां अभ्यनुज्ञामासाद्य प्राप्य । आ फणामण्डलादिति पदद्वयं फणामण्डलमारभ्येत्यर्थः । आ च वालमूलं लाङ्गूलाग्रमभिव्याप्येत्यर्थः । कराञ्चलैः हस्ततलैः युगपदेकदा स्कन्धेषु अंसेषु तं वासुकिम्, उपनिवेशयन्तः स्थापयन्तस्सन्तः, अपरानन्यान् महोरगान् पुनः
[^१] परमेश्वरेण यथा सुर्पाणां तत्तदङ्गे तत्तदाभरणविशेषतया धारणं कृतम्, सैव रीतिः शिवभक्तैर्दानवैरपि कृता इत्यर्थः ॥