This page has been fully proofread once and needs a second look.

तृतीयाश्वासः
 
२५७
 
"
 
अथ कथञ्चिदाश्वस्तमहिपुङ्गवमालक्षयन्तो दानवा नगनगर-
ग्रामनदनदीनदीशसन्तानदन्तुरेण भौमेन पथा परिक्रमणम्, आवेद्य
मान्द्यहेतुम्, आसाद्य तदनुज्ञाम्, आफणामण्डलादा च वालमूला-
दुद्धृत्य कराञ्चलैर्युगपदुपनिवेशयन्तः स्कन्धेषु तम्, '[^१]अपरान् पुनर्महोर-
गान् अङ्गुलीभिः अङ्गुळीयकानीव, पादैर्नृनूपुराणीव, पाणिभिः कङ्कणा-
नीव, वक्षसा हारवलयानीव, वहन्तो तारापथेन दुग्धोदधिमभिप्रतस्थिरे ।

 
[commentary]
 
मर्यादाभिविध्योः' (2-1-13२.१.१३) इत्यनेनोभयत्र पाक्षिकाव्ययीभावसमासाभावः । आयासः
श्रम:मः तस्य योगः सम्बन्धः तस्मात् स्तिमितं निश्चलम्, आर्द्रञ्च वा तत्पतितं शयि
तं चेति कर्मधारयसमासः । 'आर्द्रं सार्द्र किरं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तञ्च'
इत्यमरः । फणर्धरपतिः वासुकिः तस्य भोगं कायम् । 'भोग:गः सुखे स्त्र्यादि-
भृतावहेश्च फर्णकाययोः' इत्यमरः । अवनिवलयादग्रमण्डलात्, अतिवेगादतिजवा-
दुद्धृतस्य उत्पाटितस्य, मन्थानाद्रेः मन्दरस्य सम्बन्धीत्यर्थः । भुवि भूमौ लग्नं
सङ्गतम्, इदानीमिति शेषः । त्रुटितं छेदं प्राप्तमत एव घटितं प्रथितम् । अथवा
पूर्वं त्रुटितं बलाद्देवासुरैरुत्पाटितान्मध्ये छिन्नमिदानीं देवासुरैर्घटितं छिन्नकूपरज्जु -
वत् ग्रथितमित्यर्थः । "समासस्तु स्नातानुलिप्तवत् । एकं मुख्यं मूलं मूलभङ्गमिव
अद्राक्षुः ॥ अथेति ॥ अथ पाताळं विहाय भूप्रदेशानयनानन्तरम्, अहिपुङ्गवं वासुकिं
कथञ्चित् अतिकृच्छ्रेण आश्वस्तम् आश्वासं प्राप्नुवन्तं व्यर्थत्वात्तस्येति भावः ।
आलक्षयन्तः पर्श्यन्तः, दानवाः नगानामंद्रीणां नगराणां पुराणां ग्रामाणां
सर्वसथ

संवसथा
नां नंदीनां सरितां नदानां पुन्नदीनां नदीशानां समुद्राणां च यानि शता-
न्यनेकानि तेषां सन्तानाः अविच्छेदाः, सर्वत्र स्थितय इति यावत् । 'सन्ताना:
नाः स्युरविच्छित्तिवंशोशापत्यसुरद्रुमाः' इत्यमरशेषः । तैः दन्तुरेण निम्नोन्नतेन,
व्याप्तेनैनेति वाऽर्थः । भूमौ भवः भौमः तथाभूतेन पथा मार्गेण परिक्रमणं गमनम् ।
परिपूर्वीवात् 'क्रमु' पादविन्यासे' इति धार्तोर्भावे ल्युट्प्रत्ययः । मान्द्यं शैघ्र्यराहित्यं

तस्य हेतुतुं कारणमित्यावेद्य विज्ञाप्य, तस्य वासुकेरनुज्ञां अभ्यनुज्ञामासाद्य प्राप्य ।
आ फणामण्डलादिति पदद्वयं फणामण्डलमारभ्येत्यर्थः । आ च वालमूलं
लाङ्गूलाग्रमभिव्याप्येत्यर्थः । कराञ्चलैः हस्ततलैः युगपदेकदा स्कन्धेषु अंसेषु
तं वासुकिम्, उपनिवेशयन्तः स्थापयन्तस्सन्तः, अपरानन्यान् महोरगान् पुनः
 
,
 
::1.-

 
[^१]
परमेश्वरेण यथा सुर्पाणां तत्तदनेङ्गे तत्तदाभरण विशेषतया धारणं कृतम्,
सैव रीतिः शिवभक्तैर्दानवैरपि कृता इत्यर्थः ॥
N - 33