This page has not been fully proofread.

तृतीयाश्वासः
 
२५७
 
"
 
अथ कथञ्चिदाश्वस्तमहिपुङ्गवमालक्षयन्तो दानवा नगनगर-
ग्रामनदनदीनदीशसन्तानदन्तुरेण भौमेन पथा परिक्रमणम्, आवेद्य
मान्द्यहेतुम्, आसाद्य तदनुज्ञाम्, आफणामण्डलादा च वालमूला-
दुद्धृत्य कराञ्चलैर्युगपदुपनिवेशयन्तः स्कन्धेषु तम्, 'अपरान् पुनर्महोर-
गान् अङ्गुलीभिः अङ्गुळीयकानीव, पादैर्नृपुराणीव, पाणिभिः कङ्कणा-
नीव, वक्षसा हारवलयानीव, वहन्तो तारापथेन दुग्धोदधिमभिप्रतस्थिरे ।
मर्यादाभिविध्योः' (2-1-13) इत्यनेनोभयत्र पाक्षिकाव्ययीभावसमासाभावः । आयासः
श्रम: तस्य योगः सम्बन्धः तस्मात् स्तिमितं निश्चलम् आर्द्रञ्च वा तत्पतितं शयित
चेतिकर्मसमासः । 'आर्द्र सार्द्र किन्नं तिमित स्तिमित समुन्नमुत्तञ्च'
इत्यमरः। फणर्धरपतिः वासुकिः तस्य भोगं कायम् । 'भोग: सुखे स्र्यादि-
भृतावहेश्च फर्णकाययोः' इत्यमरः । अवनिवलयादग्रमण्डलात्, अतिवेगादतिजवा-
दुधृतस्य उत्पाटितस्य, मन्थानाद्रेः मन्दरस्य सम्बन्धीत्यर्थः । भुवि भूमौ लग्नं
सङ्गतम्, इदानीमिति शेषः । त्रुटितं छेद प्राप्तमत एव घटित प्रथितम् । अथवा
पूर्वं त्रुटित बलाद्देवासुरैरुत्पाटितान्मध्ये छिन्नमिदानीं देवासुरैर्घटितं छिन्नकूपरज्जु -
वत् ग्रथितमित्यर्थः । "समासस्तु स्नातानुलिप्तवत् । एकं मुख्यं मूलं मूलभङ्गमिव
अद्राक्षुः॥ अथेति ॥ अथ पाताळं विहाय भूप्रदेशानयनानन्तरम्, अहिपुङ्गवं वासुकिं
कथञ्चित् अतिकृच्छ्रेण आश्वस्तम् आश्वासं प्राप्नुवन्तं व्यर्थत्वात्तस्येति भावः ।
आलक्षयन्तः पर्यन्तः, दानवाः नगानामंद्रीणां नगराणां पुराणां ग्रामाणां
सर्वसथनां नंदीनां सरितां नदानां पुनदीनां नदीशानां समुद्राणां च यानि शता-
न्यनेकानि तेषां सन्तानाः अविच्छेदाः, सर्वत्र स्थितय इति यावत् । 'सन्ताना:
स्युरविच्छित्तिवंशोपत्यसुरद्रुमाः' इत्यमरशेषः । तैः दन्तुरेण निम्नोन्नतेन,
व्याप्तेनैति वाऽर्थः । भूमौ भवः भौमः तथाभूतेन पथा मार्गेण परिक्रमणं गमनम् ।
परिपूर्वीत् 'कमु' पादविन्यासे' इति धार्तोर्भावे ल्युट्प्रत्ययः । मान्यं शैघ्रयराहित्यं
तस्य हेतु कारणमित्यावेद्य विज्ञाप्य, तस्य वासुकेरनुज्ञां अभ्यनुज्ञामासाद्य प्राप्य ।
आ फणामण्डलादिति पदद्वयं फणामण्डलमारभ्येत्यर्थः । आ च वालमूलं
लागूलाग्रमभिव्याप्येत्यर्थः। कराञ्चलैः हस्ततलैः युगपदेकदा स्कन्धेषु अंसेषु
तं वासुकिम्, उपनिवेशयन्तः स्थापयन्तस्सन्तः अपरानन्यान् महोरगान् पुनः
 
,
 
::1.- परमेश्वरेण यथा सुर्पाणां तत्तदने तत्तदाभरण विशेषतया धारणं कृतम्,
सैव रीतिः शिवभक्तैर्दानवैरपि कृता इत्यर्थः ॥
N - 33