2023-08-15 06:01:49 by Bharadwajraki
This page has been fully proofread twice.
क्षन्तः पुनः, अवेक्षमाणा निम्नोन्नतानि, फूत्कुर्वन्तो भूयसा यावदश्राम्यन् अनिलाशनाः तावत्करावलम्बनप्रदानापदेशेन परिघतोमरगदाप्रासादिभिः प्रहरणैः प्रकल्पयन्त इव सोपानानि, परिकर्षयन्तः शनैश्शनैरिव प्रापयामासुरवनितलं फणाधरानसुरेश्वराः ।
आपाताळात्फणधरपतेरा च मूलात्सुमेरोः
अद्राक्षुस्ते स्तिमितपतितं भोगमायासयोगात् ।
मन्थानाद्रेरवनिवलयादुद्द्धृतस्यातिवेगात्
अन्तर्लग्नं त्रुटितघटितं मूलमेकं भुवीव ॥ ६५ ॥
[commentary]
प्रतीहारः' इत्यमरः । महता अधिकेन, प्रयत्नेन, मन्दं मन्दं दशयोजनमुत्सर्पन्तः उद्गच्छन्तोऽपि शतसङ्ख्याकानि योजनानि यस्य स तथाभूतं अधः अधोदेशे पतन्तः पतनं कुर्वन्तः सन्तः आरुरुक्षन्तः पुनः आरोढुमिच्छन्तस्त्वित्यर्थः । निम्नोन्नतानि (समीकुर्वन्तस्सन्तः पुनः ?) अपेक्षमाणाः काङ्क्षन्तः अत एव भूयसा अधिकं फूत्कुर्वन्तः फूत्कारं कुर्वन्तः, अनिलाशनाः सर्पाः, यावदश्राम्यन् श्रमं प्रापुः । अत्रावध्यर्थको यावच्छब्दः । 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे’ इत्यमरः ॥ तावदिति ॥ तावदसुरेश्वराः बलिविरोचनप्रभृतयः करा एवावलम्बनान्याश्रयाः तेषां प्रदानं वितरणं तदेव अपदेशो व्याजः, तेन परिघतोमरगदाप्रासाः आदयो येषां ते तथाभूतैः; अत्र महद्भिरायसतन्तुभिः वलयितः नीरन्ध्रो बृहद्दण्डः । 'परिघः परिघातनः' इत्यमरः । तोमरः सर्वलायुधम् । 'सर्वला तोमरोऽस्त्रियाम्' इत्यमरः । गदा आयुधविशेषः । 'गदो रोगहरिभ्रात्रोः गदा
स्यादायुधान्तरे' इति भास्करः । प्रासः कुन्तायुधम् । 'प्रासस्तु कुन्तः कोणस्तु' इत्यमरः । एतदादिभिरित्यर्थो बोध्यः । प्रहरणैरायुधैः । 'आयुधं तु प्रहरणम्' इत्यमरः । सोपानान्यारोहणानीव । 'आरोहणं स्यात्सोपानम्' इत्यमरः । कल्पयन्तः विरचयन्तः, शनैर्मन्दं, परिकर्षयन्तः आकर्षयन्तस्सन्तः शनैर्मन्दं फणाधरान्सर्पान्, अवनितलं भूतलं, प्रापयामासुः, निन्युरित्यर्थः । स्वयं प्रयासं महान्तमनुभवन्तोऽपि बलिनः कार्यं [^१]साधयन्त्येवेति भावः ॥ आपाताळादिति ॥ आपाताळात् पाताळलोकमारम्भ्य, सुमेरोर्हेमाद्रेः आमूलात् मूलदेशमभिव्याप्येत्यर्थः । 'आङ्
[^१] "विघ्नेः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति" इति न्यायात् सोपानरचनया सर्पाणामूर्ध्वकर्षणं न्याय्यमेव ॥