This page has been fully proofread once and needs a second look.

नीलकण्ठ विजये सव्याख्याने
 
क्षन्तः पुनः, अवेक्षमाणा निम्नोन्नतानि, फुफूत्कुर्वन्तो भूयसा यावदश्राम्यन्
अनिलीलाशनाः तावत्करावलम्बनप्रदाना पदेशेन परिघतोमरगदाप्रासादि-
भिः प्रहरणैः प्रकल्पयन्त इव सोपानानि, परिकर्षयन्तः शनैश्श-
नैरिव प्रापयामासुरवनितलं फणाधरानसुरेश्वराः ।

 
आपाताळात्फणधरपतेरा च मूलात्सुमेरोः
 
;
 
"

अद्राक्षुस्ते स्तिमितपतितं भोगमायासयोगात् ।

मन्थानाद्रेरवनिवलयादुद्घृद्धृतस्यातिवेगात्

अन्तर्लग्नं त्रुटितघटितं मूलमेकं भुवीव ॥ ६५ ॥
 
$
 

 
[commentary]
 
प्रतीहार : रः' इत्यमरः । महता अधिकेन, प्रयत्नेन, मन्दं मन्दं दशयोजनमुत्सर्पन्तः
उद्गच्छन्तोऽपि शतसङ्ख्याकानि योजनानि यस्य स तथाभूतं अधः अधोदेशे
पतन्तः पतनं कुर्वन्तः सन्तः आरुरुक्षन्तः पुनः आरोढुमिच्छन्तस्त्वित्यर्थः ।
·
निम्नोन्नतानि (समीकुर्वन्तस्सन्तः पुन: १नः ?) अपेक्षमाणाः काङ्क्षन्तः अत एव भूयसा
अधिक फुकं फूत्कुर्वन्तः फूत्कारं कुर्वन्तः, अनिलाशनाः सर्पाः, यावदश्राम्यन् श्रमं
प्राः
प्रापुः । अत्रावध्यर्थको यावच्छब्दः । 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे
इि
’ इत्यमरः ॥ तांतावदिति ॥ तावदसुरेश्वराः बलिविरोचनप्रभृतयः करा एवाव-
;
लम्बनान्याश्रयाः तेषां प्रदानं वितरणं तदेव अपदेशो व्याजः, तेन परिघतो-
रगदाप्रासाः आदयो येषां ते तथाभूतैः; अत्र महद्भिरायसतन्तुभिः वलयितः
'
नीरन्ध्रो बृहद्दण्डः । 'परिघः परिघातनः' इत्यमरः । तोमरः सर्वलायुधम् । 'सर्वला
तोमरोऽस्त्रियाम्' इत्यमरः । गदा आयुधविशेष:षः । 'गदो रोगहरित्भ्रात्रोः गदा
'स्यां

स्या
दायुघाधान्तरे' इति भास्करः । प्रासः कुन्तायुधम् । 'प्रासस्तु कुन्तः कोणस्तु'
इत्यमरः । एतदादिभिरित्यर्थो बोध्यः । प्रहरणैरायुधैः । 'आयुषंधं तु प्रहरणम्'
इत्यमरः । सोपानान्यारोहणानीव । 'आरोहणं स्यात्सोपानम्' इत्यमरः । कल्प-
यन्त:
यन्तः विरचयन्तः, शनैर्मन्दं, परिकर्षियन्तः आकर्षयन्तस्सन्तः शनैर्मन्दं फणाधरान्
सर्पान्, अवनितलं भूतलं, प्रापयामासुः, निन्युरित्यर्थः । स्वयं प्रयासं महान्तमनु-
'
भवन्तोऽपि बलिनः कार्यं [^१]साधयन्त्येवेति भावः ॥ आपाताळादिति ॥ आपाता-
ळात् पाताळलोकमारम्भ्य, सुमेरोर्हेमाद्रेः आमूलात् मूलदेशमभिव्याप्येत्यर्थः । 'आङ्
 
(<
 
1. '

 
[^१] "
विघ्नेः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति "
इति न्यायात् सोपानरचनया सर्पाणामूर्ध्वकर्षणं न्याय्यमेव ॥