This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
 
क्षन्तः पुनः, अवेक्षमाणा निम्नोन्नतानि, फुत्कुर्वन्तो भूयसा यावदश्राम्यन्
अनिलीशनाः तावत्करावलम्बनप्रदाना पदेशेन परिघतोमरगदाप्रासादि-
भिः प्रहरणैः प्रकल्पयन्त इव सोपानानि, परिकर्षयन्तः शनैश्श-
नैरिव प्रापयामासुरवनितलं फणाधरानसुरेश्वराः ।
आपाताळात्फणधरपतेरा च मूलात्सुमेरोः
 
;
 
"अद्रास्ते स्तिमितपतितं भोगमायासयोगात् ।
मन्थानाद्रेरवनिवलयादुद्घृतस्यातिवेगात्
अन्तर्लग्नं त्रुटितघटितं मूलमेकं भुवीव ॥ ६५ ॥
 
$
 
प्रतीहार : ' इत्यमरः । महता अधिकेन, प्रयत्नेन, मन्दं मन्दं दशयोजनमुत्सर्पन्तः
उद्गच्छन्तोऽपि शतसङ्ख्याकानि योजनानि यस्य स तथाभूतं अघ अधोदेशे
पतन्तः पतनं कुर्वन्तः सन्तः आरुरुक्षन्तः पुनः आरोढुमिच्छन्तस्त्वित्यर्थः ।
· निम्नोन्नतानि (समीकुर्वन्तस्सन्तः पुन: १) अपेक्षमाणाः काङ्क्षन्तः अत एव भूयसा
अधिक फुत्कुर्वन्तः फूत्कारं कुर्वन्तः, अनिलाशनाः सर्पाः, यावदश्राम्यन् श्रमं
प्राः अत्रावध्यर्थको यावच्छब्दः । 'यावत्तावच साकल्येऽवधौ मानेऽवधारणे
इित्यमरः ॥ तांवदिति ॥ तावदसुरेश्वराः बलिविरोचनप्रभृतयः करा एवाव-
; लम्बनान्याश्रयाः तेषां प्रदान वितरणं तदेव अपदेशो व्याजः, तेन परिघतो-
भरगदाप्रासाः आदयो येषां ते तथाभूतैः; अत्र महद्भिरायसतन्तुभिः वलयितः
'नीरन्ध्रो बृहद्दण्डः। 'परिघः परिघातनः' इत्यमरः । तोमरः सर्वलायुधम् । 'सर्वला
तोमरोऽस्त्रियाम्' इत्यमरः । गदा आयुधविशेष: । 'गदो रोगहरित्रात्रोः गदा
'स्यांदायुघान्तरे' इति भास्करः । प्रासः कुन्तायुधम् । 'प्रसस्तु कुन्तः कोणस्तु'
इत्यमरः । एतदादिभिरित्यर्थो बोध्यः । प्रहरणैरायुधैः । 'आयुषं तु प्रहरणम्'
इत्यमरः । सोपानान्यारोहणानीव । 'आरोहणं स्यात्सोपानम्' इत्यमरः । कल्प-
यन्त: विरचयन्तः, शनैर्मन्दं, परिकर्षियन्तः आकर्षयन्तस्सन्तः शनैर्मन्दं फणाधरान्
सर्पान्, अवनितलं भूतलं, प्रापयामासुः, निन्युरित्यर्थः । स्वयं प्रयासं महान्तमनु-
'भवन्तोऽपि बलिनः कार्य साधयन्त्येवेति भावः ॥ आपाताळादिति ॥ आपाता-
ळात् पाताळलोकमारम्भ्य, सुमेरोर्हेमाद्रेः आमूलात् मूलदेशमभिव्याप्येत्यर्थः । 'आङ्
 
(<
 
1. 'विघ्नेः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति "
इति न्यायात् सोपानरचनया सर्पाणामूर्ध्वकर्षण न्याय्यमेव ॥