2023-08-14 08:53:07 by Bharadwajraki
This page has been fully proofread twice.
ततः प्रतिष्ठध्वमित्यनुज्ञाय दानवान् प्रसारयन् मन्दरोद्धाररन्ध्राभिमुखम्, अनुवृतस्तक्षकादिभिः, अनुमतो भूभारवहननिश्चलेन भगवता शेषेण, शनैश्शनैश्शिथिलीचकार भोगवलयान् ।
अथ तेन बिलाध्वना विशन्तं पवनं पार्थिवगन्धसारसान्द्रम् ।
प्रथमे पथि विश्रमे फणीन्द्राः पपुराकण्ठमयाचितोपपन्नम् ॥ ६४ ॥
ततः प्रपात इव परिहृतनिम्नोन्नते तस्मिन् बिलद्वारे, महता यत्नेन मन्दंमन्दमुत्सर्पन्तो [^१]दशयोजनम् अधःपतन्तः, शतयोजनं आरुरु-
[commentary]
तस्मात् शङ्कितं संभावितमूहितमिति यावत् । तथाभूतं पतनं पातः, यस्याः तथाभूतां अवनीं भूमिं धारयितुं वोढुं स्वयम्भुवा ब्रह्मणा, अवस्थापितः निखातः, वज्रस्तम्भः हीरकस्थूण इव सन्ददृशे दृष्टम् । यद्वा यावदुत्तस्थौ तावत्सन्ददृशे दृष्ट इति वा योजना ॥ तत इति ॥ ततोऽनन्तरं दानवान् प्रति प्रतिष्ठध्वं प्रयाणं कुरुध्वम् इति एवमनुज्ञाय आदिश्येत्यर्थः । मन्दरोद्धाररन्ध्रं मन्दरपर्वतोत्पाटनबिलं तस्य अभिमुखं यथा तथा मुखं स्ववदनं प्रसारयन् प्रचालयन् तक्षको नागः । 'तक्षको नागवर्धक्योः' इत्यमरः । आदिर्येषां ते तक्षकादयः तैरनुवृतः अनुसृतः भुवो भारो धूस्तस्य वहनं धारणं तस्मिन् निश्चलेन अचञ्चलेन भगवता पूज्येन शेषेण अनुमतः संमतिमान् सः शनैश्शनैः मन्दंमन्दं, भोगस्य कायस्य, ये वलयाः कुण्डलनानि तान् शिथिलीचकार श्लथयाञ्चकारेत्यर्थः ॥ अथेति ॥ अथ प्रस्थानानन्तरं, फणीन्द्रास्सर्पश्रेष्ठाः पथि मार्गे, प्रथमे प्राथमिके । 'प्रथमौ प्रवरादिमौ' इति भास्करः । विश्रमे विश्रान्तिस्थाने बिलाध्वना मन्दरोत्पाटनरन्ध्रमार्गेण विशन्तं प्रविशन्तं अत एव पार्थिवः पृथिवीसम्बद्धः यो गन्ध आमोदः तस्य सारेण स्थिरांशेन सान्द्रं, मेदुरम् । 'सान्द्रः स्निग्धस्तु मेदुरः' इत्यमरः । अयाचितोऽप्रार्थितस्सन्, उपपन्नः प्राप्तः, तथाभूतं पवनं वायुं आकण्ठं गळपर्यन्तं पपुः पानञ्चक्रुः ॥ तत इति ॥ ततोऽनन्तरं प्रपात इव पर्वतभृगुरिव । 'प्रपातस्तु तटो भृगुः' इत्यमरः । प्ररिहृते परित्यक्ते निम्नोन्नते निम्नोन्नतप्रदेशौ येन तत्तथाभूते तस्मिन् बिलद्वारे मन्दरोत्पाटनच्छिद्रद्वारि । 'स्त्री द्वार्द्वारं
[^१] "दशयोजनमुत्सर्पणं, शतयोजनमधः पतनम्" -- इत्येतत् श्रीजयन्त्युत्सवकाले (--) समये (--) रीतिं प्रसिद्धामनुस्मारयति ॥ वक्रगतीनां निम्नोन्नतस्थलगमनमेव सुकरमिति भावः ॥