2023-06-05 16:40:27 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
२५५
"
ततः प्रतिष्ठध्वमित्यनुज्ञाय दानवान् प्रसारयन् मन्दरोद्वार -
रन्ध्राभिमुखम्, अनुवृतस्तक्षकादिभिः, अनुमतो भूभारवहन निश्चलेन
-भगवता शेषेण, शनैश्शनैश्शिथिलीचकार भोगवलयान् ।
अथ तेन बिलाध्वना विशन्तं पवनं पार्थिवगन्धसारसान्द्रम् ।
प्रथमे पथि विश्रमे फणीन्द्राः पपुराकण्ठमयाचितोपपन्नम् ॥ ६४ ॥
ततः प्रपात इव परिहृतनिम्नोन्नते तस्मिन् बिलद्वारे, महता
यत्नेन मन्दमन्दमुत्सर्पन्तो 'दशयोजनम् अधःपतन्तः, शतयोजनं आरुरु-
1
तस्मात् शक्तिं संभावितमूहितमिति यावत् । तथाभूतं पतनं पातः, यस्याः तथा-
. भूतां अवनी-भूमिं धारयितुं वोढुं स्वयम्भुवा ब्रह्मणा, अवस्थापितः निखातः, वज्रस्तम्भः
हीरकस्थूण इव सन्ददृशे दृष्टम् । यद्वा यावदुत्तस्थौ तावत्सन्दहशे दृष्ट इति
वा योजना ॥ तत इति ॥ ततोऽनन्तरं दानवान् प्रति प्रतिष्ठध्वं प्रयाणं कुरुध्वम्
इति एवमनुज्ञाय आदिश्येत्यर्थः । मन्दरोद्धाररन्धं मन्दरपर्वतोत्पाटनबिलं तस्य
अभिमुखं यथा तथा मुख स्ववदनं प्रसारयन् प्रचालयन् तक्षको नागः ।
''तक्षको नागवर्धक्योः' इत्यमरः । आदिर्येषां ते तक्षकादयः तैरनुवृतः अनुसृतः
भुवो भारो धूस्तस्य वहनं धारणं तस्मिन् निश्चलेन अचञ्चलेन भगवता पूज्येन
शेषेण अनुमतः संमतिमान् सः शनैश्शनैः मन्दमन्दं, भोगस्य कायस्य, ये वलयाः
कुण्डलनानि तान् शिथिलीचकार श्लथयाञ्चकारेत्यर्थः ॥ अथेति ॥ अथ
प्रस्थानानन्तरं, फणीन्द्रास्सर्पश्रेष्ठाः पथि मार्गे, प्रथमे प्राथमिके। 'प्रथमौ प्रवरादिमौ'
इति भास्करः । विश्रमे विश्रान्तिस्थाने बिलाध्वना मन्दरोत्पाटनरन्ध्रमार्गेण
विशन्तं प्रविशन्तं अत एव पार्थिवः पृथिवीसम्बद्धः यो गन्ध आमोदः तस्य
सारेण स्थिरांशेन सान्द्रं, मेदुरम् । 'सान्द्रः स्निग्धस्तु मेदुरः' इत्यमरः ।
.अयाचितोऽप्रार्थितस्सन्, उपपन्न: प्राप्तः, तथाभूतं पवनं वायुं आकण्ठं गळपर्यन्तं
g
पुः पानञ्चक्रुः ॥ तत इति ॥ ततोऽनन्तरं प्रपात इव पर्वतभृगुरिख ।
'प्रपातस्तु तटो भृगुः' इत्यमरः । प्ररिहृते परित्यक्ते निम्नोन्नते निम्नोन्नतप्रदेशौ
येन तथाभूते तस्मिन् बिलद्वारे मन्दरो पाटनच्छिद्रद्वारि । 'स्त्री द्वार्द्वारं
1. " दशयोजन मुत्सर्पणं, शतयोजनमध: पतनम् " – इत्येतत् श्रीजयन्त्युत्सव-
'काले 29 समये Cpov रीति प्रसिद्धामनुस्मारयति ॥ वक्र-
गतीनां निम्नोन्नतस्थलगमनमेव सुकरमिति भावः ॥