2023-06-24 05:58:44 by Bharadwajraki
This page has been fully proofread once and needs a second look.
दृष्ट्वा कौस्तुभमप्सरोगणमपि प्रकान्तवादा मिथो
गीर्वाणाः कति वा न सन्ति भुतने भारा दिवः केवलम् ।
निष्क्रान्ते गरळे द्रुते सुरगणे निश्चेष्टिते विष्टपे
मा भैष्टेति गिराविरास घुरि यो देवस्तमेव स्तुमः ॥ २॥
----------------
कर्मनिर्देशो न सम्भवति "न म्लेच्छितवै[^१] नापभाषितवै" इत्यादिना निषिद्धत्वा-द्धयेयब्रह्मणोऽर्धपुंलक्षणेन अद्वितीयत्वाद्विभिन्नस्त्रीपुंसद्वयवाचकदम्पती इत्यनेन कर्मनिर्देशो न सम्भवतीत्याह ॥ दम्पतिमिति ॥ ब्रूयां कि वक्तव्यं[^२] वा उताहो अथवा। ' आहो उताहो किमुत' इत्यमरः । दम्पती इति ब्रूयां किं वक्तव्यं वा । उभयथापि तयोः पूर्वस्यापभ्रंशतया उत्तरस्याद्वितीयवाचकत्वावाभावेन कर्मनिर्देशो न सम्भवति[^३] इति भावः । पूर्वश्लोके मङ्गळत्वेन सकर्मकं वन्दनमभिघाय कर्मणो विशेषनिर्देशस्तु न सम्भवति, मङ्गळास्पदत्वेन वन्दनार्हस्येश्वरस्य अपृथविसद्धमिथुनरूपत्वान्मिथुनाभिलापकदम्पतिशब्दस्यैकवचनराहित्येन द्विवचनार्थस्य चैक-स्मिन् वाधितत्वेनेत्युक्तं भवति । यद्यपि उमामहेश्वरात्मकमिथुनस्य अपृथक्सिद्धत्वेन
एकत्वाद्द्विवचनान्तशब्देन निर्देशो न सम्भवति, मिथुनत्वादेव एकवचनान्तशब्देनापि; तथापीश्वरव्यूहान्तःपातिनां लक्ष्मीनारायणादीनां पृथक्सिद्धमिथुनरूपत्वात् खण्डश एकवचनान्तशब्देन वा समुदायतो द्विवचनान्तशब्देन वा निर्देशार्हत्वात्कृतो
[^१] म्लेच्छ (तुरुष्कादि) भाषावदननिषेधशङ्कामपनुदति वाक्यशेष: - "म्लेच्छो ह वा एष यदपशब्दः" इति । यज्ञियकर्मणोऽन्यत्रानियमेऽपि कविः अपभ्रंशं न प्रयुञ्जीत इति भावः ॥
"नानृतं वदेत्" - इत्यनारम्याधीतेन निषेधेन, क्रत्वर्थात् पृथक्भूतेन, पुरुषप्रत्यवायजनकतया अर्थानृतस्येव शब्दानृतात्मकस्यापभ्रंशप्रयोगस्यापि निषेधात् "अन्यत्रानियमः" इत्येतत् न साधु ॥ "आहिताग्निरपशब्दं प्रयुञ्ज्ञान: सारस्वतीमिष्टिं निर्वपेत्" - इत्यत्रापि आहिताग्निपदस्यानुवादेन तन्मात्रप्रत्यवायपरिहाराय सारस्यतीष्टिविधिरिति, अनाहिताग्नेरपि प्राप्तं शब्दानृतवदनं सामान्यतो निष्टिद्धं न बारयति ॥ एक: शब्द. सुष्टुग्युक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति" - इति काम्यताप्रतिपादनं शास्त्रान्वितसुशब्दप्रयोगस्यैवेति, सामान्यतः शब्दानृतनिषेधात् अपभ्रंशप्रयोगे सर्वेषां प्रत्यवाय एव पुरुषार्थनिषेधात् इति तत्वम् ॥
[^२] काक्वा वक्तुमनर्हमित्यर्थः प्रतीयते ।
[^३] एतेन वन्यस्य शिवस्यावाङ्मनसगोचरत्वेनौपनिषदब्रह्मता प्रतिपादिता भवति ॥