2023-06-05 16:38:55 by ambuda-bot
This page has not been fully proofread.
२
नीलकण्ठविजये सव्याख्याने
दृष्ट्वा कौस्तुभमप्सरोगणमपि प्रकान्तवादा मिथो
गीर्वाणाः कति वा न सन्ति भुतने भारा दिवः केवलम् ।
निष्क्रान्ते गरळे द्रुते सुरगणे निश्चेष्टिते विष्टपे
मा भैष्टेति गिराविरास घुरि यो देवस्तमेव स्तुमः ॥ २॥
कर्मनिर्देशो न सम्भवति "न म्लेच्छित वै नापभाषितवै" इत्यादिना निषिद्धत्वा-
द्धयेयब्रह्मणोऽर्धपुंलक्षणेन अद्वितीयत्वाद्विभिन्नस्त्रीपुंसद्वयवाचक दम्पती इत्यनेन कर्म-
निर्देशो न सम्भवतीत्याह ॥ दम्पतिमिति ॥ ब्रूयां कि वक्तव्यं वा उताहो
अथवा। ' आहो उताहो किमुत' इत्यमरः । दम्पती इति ब्रूयां किं वक्तव्यं वा ।
उभयथापि तयोः पूर्वस्यापत्रंशतया उत्तरस्याद्वितीयवाचकः वाभावेन कर्मनिर्देशो न
सम्भवति, इति भावः । पूर्वश्लोके मङ्गळत्वेन सकर्मकं वन्दनमभिघाय कर्मणो
विशेषनिर्देशस्तु न सम्भवति, मङ्गळास्पदत्वेन वन्दनार्हस्येश्वरस्य अपृथविसद्ध-
मिथुन रूपत्वा न्मिथुनाभिलापकदम्पतिशब्दस्यैकवचनराहित्येन द्विवचनार्थस्य चैक-
स्मिन् वाधितत्वेनेत्युक्तं भवति । यद्यपि उमामहेश्वरात्मकमिथुनस्य अपृथक्सिद्धत्वेन
एकत्वाद् द्विवचनान्तशब्देन निर्देशो न सम्भवति, मिथुनत्वादेव एकवचनान्तशब्दे-
नापि; तथापीश्वरव्यूहान्तः पातिनां लक्ष्मीनारायणादीनां पृथक्सिद्ध मिथुनरूपत्वात्
खण्डश एकवचनान्तशब्देन वा समुदायतो द्विवचनान्तशब्देन वा निर्देशार्हत्वात्तो
1. म्लेच्छ (तुरुष्कादि) भाषावदन निषेधशङ्कामपनुदति वाक्यशेष:- " म्लेच्छो
हवा एष यदपशब्दः" इति । यज्ञियकर्मणोऽन्यत्रा नियमेऽपि कविः अपभ्रंशं न प्रयुञ्जीत
इति भावः ॥
"नानृतं वदेत् "— इत्यनारम्याधीतेन निषेधेन, क्रत्वर्थात् पृथक्भूतेन, पुरुष-
प्रत्यवायजनकतया अर्थानृतस्येव शब्दानृतात्मकस्यापभ्रंशप्रयोगस्यापि निषेधात् " अन्य-
त्रानियमः " इत्येतत् न साधु ॥ 'आहिता निरपशब्दं प्रयुञ्ज्ञान: सारस्वतीमिष्टिं निर्व-
पेत्" – इयत्रापि आहिताग्निपदस्यानुव । देन तन्मात्र प्रत्यत्रायपरिहाराय सारस्यतीष्टिविधि-
रिति, अनाहिताग्नेरपि प्राप्तं शब्दानृतवदनं सामान्यतो निष्टिद्धं न बारयति ॥
शब्द. सुष्टुग्युक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति" - इति काम्यताप्रतिपादनं
शास्त्र।न्त्रितसु शब्दप्रयोगस्यैवेति, सामान्यतः शब्दानृतनिषेधात् अपभ्रंशप्रयोगे सर्वेषां
प्रत्यवाय एव पुरुषार्थनिषेधात् इति तत्वम् ॥
एक:
2. काक्का वक्तुमनईमित्यर्थः प्रतीयते ।
3. एतेन वन्यस्य शिवस्या वाङ्मनसगोचरत्वेनौपनिषदब्रह्मता प्रतिपादिता भवति ॥