This page has been fully proofread twice.

संवासेन, ततस्तत्त्वमेतदवाधार्यताम् ।
 
महद्भिर्ग्रथ्नीमः स्रजमजगरैर्मन्दरचरैः
aमरुद्भिर्वा पाशैर्भ्रमयितुमलं स्तब्धमचलम् ।
कराग्रैर्मथ्नीमो जलधिमथवा किं क्षरति नो
[^१]यशस्तूद्गातुं ते पुनरपि वदामः पुनरपि ॥ ६३ ॥'
 
इति प्रार्थितो दानवैरनुत्तरो भुजगपतिः प्रस्थातुकामो वलयमेकमुत्सृजन् यावदुत्तस्थौ, तावदर्णवमथनक्षोभशङ्कितपतनामवनीं धारयितुमवस्थापितः स्वयम्भुवा वज्रस्तम्भ इव सन्ददृशे ।
 
[commentary]
 
कारणाद्वयं भवतः प्रतिवेशः प्रतिसदनं तत्र भवाः प्रातिवेशिकाः, अभिमुखसदनवर्तिन इति यावत् । चिरतरं बहुकालं सहवासः एकत्रावस्थितिः तेन त्वयेति शेषः । परिचितहृदयाः परीक्षितमनसः ततः कारणात् [^२]तत् भवितव्यं त्वयैवावधार्यतां पर्यालोच्यतां भवतो यशश्चिन्तका वयं किमपि न मृषा वदाम इति भावः ॥ महद्भिरिति ॥ मन्दरे चरन्ति गच्छन्तीति मन्दरचराः तथाभूतैः महद्भिः स्थूलदीर्घैरित्यर्थः । अजगरैः नागविशेषैः शयुभिः । 'अजगरे शयुर्वाहस इत्युभौ' इत्यमरः । स्रजं मालां ग्रथ्नीमः ग्रन्थनं कुर्मः । महद्भिः पाशैः दामभिर्वा तमचलं भ्रमयितुं विघूर्णयितुं अलं शक्ताः । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । स्मः भवामः । अथवा कराग्रैः हस्ताग्रैर्जलधिं क्षीरार्णवं, मथ्नीमः मन्थनं कुर्मः । नः अस्माकः, किं क्षरति अस्माकं किमपि न गच्छतीति हृदयम् । ते जना इति शेषः । ते तव यशः उद्गातुं गानं कर्तुं पुनः पुनरपि वदामः ब्रूमः ॥ इतीति ॥ इति इत्थं, दानवैः, प्रार्थितः, अनुत्तरः प्रतिवचनरहितः । 'श्रेष्ठेऽनुदीचि प्रतिवाग्धीने च त्रिष्वनुत्तरः' इति भास्करः । भुजगपतिः वासुकिः यावत्सकलम् । 'यावत्तावच्च साकल्ये' इत्यमरः । एकं वलयं कुण्डलं उत्सृजन् विसृजन्, उत्तस्थौ उत्थित इत्यर्थः । तावत्सकलं तद्दीर्घभूतं अर्णवमथनेन यः क्षोभः चाञ्चल्यं
 
a. 'महद्भिः' इति व्याख्यापाठः ।
 
[^१] "यशस्तूद्गातुं ते पुनरपि वदामः" -- इति वाक्यश्रवणेन अनुत्तरो वासुकिः अङ्गीचकार ॥ "सर्वः स्वार्थं समीहते" "प्रयोजनमैनुद्दिश्य न मन्दोऽपि प्रवर्तते" इत्याद्यभियुक्तवचनात् ॥
 
[^२] 'तत्त्वमेतद्' इति मूलपाठः ।