This page has been fully proofread once and needs a second look.

नीलकण्ठविजये व्याख्याने
संवासेन, ततस्तत्त्वमेतदवाधार्यताम् ।

 
महद्भिर्ग्रथ्नीमः स्रजमंजगरैर्मन्दरचरैः
"

a
मरुद्भिर्वा पाशैर्भ्रमयितुमलं स्तब्धमचलम् ।

कराग्रैर्मथ्नीमो जलधिमथवा किकिं क्षरति नो
'

[^१]
यशस्तूद्गातुं ते पुनरपि वदामः पुनरपि ॥ ६३ ॥'

 
इति प्रार्थितो दानवैरनुत्तरोंरो भुजगपतिः प्रस्थातुकामो वलयमेक-
मुत्सृजन् यावदुत्तस्थौ, तावदर्वमथनक्षोभशङ्कितपतनामवनीं धारयितु-
मवस्थापितः स्वयम्भुवा वज्रस्तम्भ इव सन्ददृशे ।
 
२.
 
""
 

 
[commentary]
 
कारणाद्वयं भवतः प्रतिवेशः प्रतिसदनं तत्र भवाः प्रातिवेशिकाकाः, अभिमुखसदन-
वर्तिन इति यावत् । चिरतरं बहुकालं सहवासः एकलात्रावस्थितिः तेन त्वयेति शेषः ।
परिचितहृदयाः परीक्षितमनसः ततः कारणात् [^२]तत् भवितव्यं त्वयैवावधार्यतां
पर्यालोच्यतां भवतो यशश्चिन्तका वयं किमपि न मृषा वदाम इति भावः ॥
महद्भिरिति ॥ मन्दरे चरन्ति गच्छन्तीति मन्दरचराः तथाभूतैः महद्भिः
स्थूलदीषैर्घैरित्यर्थः । अजगरैः नागविशेषैः शयुभिः । 'अजगरे शयुर्वाहस इत्युभौ'
इत्यमरः । सृस्रजं मालां ग्रथ्नीमः ग्रन्थनं कुर्मः । महद्भिः पाशैः दामभिर्वा तमचलं
भ्रमयितुतुं विघूर्णयितुं अलं शक्ताः । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्'
इत्यमरः । स्मः भवामः । अथवा कराम्रैग्रैः हस्ताग्रैर्जलषिधिं क्षीरार्णवं, मथ्नीमः
मन्थनं कुर्म:मः । नः अस्माकः, किं क्षरति अस्माकं किमपि न गच्छतीति हृदयम् ।
ते जना इति शेषः । ते तव यशः उद्गातुं गानं कर्तुं पुनः पुनरपि वदामः ब्रूमः ॥
इतीति ॥ इति इत्थं, दानवैः, प्रार्थितः, अनुत्तरः प्रतिवचनर्हितः । ' श्रेष्ठेऽनुदीचि
प्रतिवाग्घीधीने च त्रिष्वनुत्तरः' इति भास्करः । भुजगपतिः वासुकिः यावत्संकलम् ।
'यावत्तावच्च साकल्ये' इत्यमरः । एकं वलयं कुण्डलं उत्सृजन् विसृजन्, उत्तस्थौ
उत्थित इत्यर्थः । तावत्सकलं तद्दीर्घभूतं अर्णवमथनेन यः क्षोभः चाञ्चल्यं
 
i
 

 
a.
'महद्भिः' इति व्याख्यापाठः ।
 

 
[^१]
"यशस्तूद्गातुं ते पुनरपि वदामः: " -- इति वाक्यश्रवणेन अनुत्तरो वासुकिः
शीङ्गीचकार ॥ "सर्वः स्वार्थं समीहते " "प्रयोजनमैनुद्दिश्य
मन्दोऽपि प्रवर्तते" इत्याचे-
द्यभियुक्त वचनात् ॥
 
..5
 
2. ॥

 
[^२] '
तत्त्वमेतद्"' इति मूलपा
 
I
 
ठः ।