This page has not been fully proofread.

नीलकण्ठविजये व्याख्याने
संवासेन, ततस्तत्त्वमेतदवाधार्यताम् ।
। महद्भिग्रनीमः स्रजमंजगरैर्मन्दरचरैः
"मरुद्भिर्वा पाशैर्भमयितुमलं स्तब्धमचलम् ।
कराग्रैर्मथ्नीमो जलधिमथवा कि क्षरति नो
'यशस्तूद्गातुं ते पुनरपि वदामः पुनरपि ॥ ६३ ॥'
इति प्रार्थितो दानवैरनुत्तरों भुजगपतिः प्रस्थातुकामो वलयमेक-
मुत्सृजन यावदुत्तस्थौ, तावदर्शवमथनक्षोभशङ्कितपतनामवनीं धारयितु-
मवस्थापितः स्वयम्भुवा वज्रस्तम्भ इव सन्दहशे ।
 
२.
 
""
 
कारणाद्वयं भवतः प्रतिवेशः प्रतिसदनं तत्र भवाः प्रातिवेशिका अभिमुखसदन-
वर्तिन इति यावत् । चिरतरं बहुकालं सहवासः एकलावस्थितिः तेन त्वयेति शेषः ।
परिचितहृदयाः परीक्षितमनसः ततः कारणात् तत् भवितव्यं त्वयैवावधार्यतां
पर्यालोच्यतां भवतो यशश्चिन्तका वयं किमपि न मृषा वदाम इति भावः ॥
महद्भिरिति ॥ मन्दरेचरन्ति गच्छन्तीति मन्दरचराः तथाभूतैः महद्भिः
स्थूलदीषैरित्यर्थः । अजगरैः नागविशेषैः शयुभिः । 'अजगरे शयुर्वाहस इत्युभौ'
इत्यमरः । सृजं मालां ग्रथ्नीमः ग्रन्थनं कुर्मः । महद्भिः पाशैः दामभिर्वा तमचलं
भ्रमयितु विघूर्णयितुं अलं शक्ताः । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्'
इत्यमरः । स्मः भवामः । अथवा कराम्रै हस्ताग्रैजलषि क्षीराणवं, मथ्नीमः
मन्थनं कुर्म: । नः अस्माकः, किं क्षरति अस्माकं किमपि न गच्छतीति हृदयम् ।
ते जना इति शेषः । ते तव यशः उद्गातुं गानं कर्तुं पुनः पुनरपि वदामः नमः ॥
इतीति ॥ इति इत्थं, दानवैः, प्रार्थितः, अनुत्तरः प्रतिवचनर्हितः । ' श्रेष्ठेऽनुदीचि
प्रतिवाग्घीने च त्रिष्वनुत्तरः' इति भास्करः । भुजगपतिः वासुकिः यावत्संकलम् ।
'यावत्तावच्च साकल्ये' इत्यमरः । एकं वलयं कुण्डलं उत्सृजन विसृजन्, उत्तस्थौ
उत्थित इत्यर्थः । तावत्सकलं तद्दीर्घभूत अर्णवमथनेन यः क्षोभः चाञ्चल्यं
 
i
 
'महद्भिः' इति व्याख्यापाठः ।
 
"यशस्तूद्गातुं ते पुनरपि वदामः: - इति वाक्यश्रवणेन अनुत्तरो वासुकिः
अशीचकार ॥ "सर्वः स्वार्थ समीहते प्रयोजनमैनुद्दिश्यन
मन्दोऽपि प्रवर्तते" इत्याचे-
भियुक्त वचनात् ॥
 
..5
 
2. ॥ तत्त्वमेतद्" इति मूलपाठ
 
I