This page has been fully proofread twice.

'क्षुद्रैः किं करणीयमेभिरुरगैः क्षीणायुषामन्तकैः
या शेषं नयतेति वागजनि ते सैवास्तु सत्याधुना ।
भूभारे ह्युपयुक्त एष विदितस्सर्वैस्ततोऽन्यः पुनः
त्वं शेषो[^१] भवसीति निश्चितधियस्त्वामेव याचामहे ॥ ६ ॥
 
अपि श्लक्ष्णीकुर्मो मणिवदचलं पाणिकषणैः
अपि त्वां वोढास्मस्सुखशयितमादुग्धजलधेः ।
सुखं चाकर्षामस्तदुपरि यथा तुष्यति भवान्
प्रसीदायच्छस्व प्रचल शनकैः प्राप्नुहि यशः ॥ ६२ ॥
 
किं बहुना । प्रातिवेशिका वयं भवतः परिचितहृदयाश्च चिर-
 
[commentary]
 
क्षुद्रैरिति ॥ क्षीणं नष्टं आयुर्जीवितकालो येषां ते तथाभूतानाम्। 'आयुर्जीवितकालो ना' इत्यमरः । अन्तकैर्मारकैः । अत एव क्षुद्रैः कदर्यैः, 'कदर्ये कृपणक्षुद्र किम्पचानमितम्पचाः' इत्यमरः । एभिरुरगैः पन्नगैः करणीयं कर्तव्यं किम् । एतैः साध्यं न भवतीति भावः । शेषं नयतेत्येवं ते तथा वागजनि अजायतासीदिति वाऽर्थः । सा वागेव अधुना सत्या अवितथा अस्तु भवतु । सर्वैः विदितः ज्ञातः एषोऽपि शेषोऽपीत्यर्थः । भूभारे भूमिधारणविषये उपयुक्तः । ततः तस्मात् भूमिभारकादन्यः शेषः पुनः अवशिष्टस्त्वित्यर्थः । त्वं भवानेवासि भवसीत्यर्थः । इति इत्थं निश्चितधियः निर्णीतबुद्धयः वयं त्वामेव याचामहे प्रार्थयामहे ॥ अपीति ॥ अचलं मन्दरमपि पाणिभिः हस्तैः, कषणानि घर्षणानि, तैर्मणिना तुल्यं मणिवच्छ्लक्ष्णीकुर्मः कृशीकुर्मः । 'श्लक्ष्णं सूक्ष्मं दभ्रं कृशं तनु' इत्यमरः ।आदुग्धजलधेः क्षीरसमुद्रमभिव्याप्य त्वां भवन्तमपि, सुखेन अनायासेन, शयितम् । भावे क्तः । स्वापो यस्मिन् कर्मणि तत्तथा । वोढास्मः भुजेषु वक्ष्याम इत्यर्थः ॥ 'वह प्रापणे' इति धातोर्लुट् । 'सहिवहोरोदवर्णस्य' (६.३.११२) इत्योत्वम् । यथा भवान् तुष्यति हर्षं प्राप्नोषि, तदुपरि मन्दरोपरि, आवेष्ट्येति शेषः । सुखमनायासं यथा तथा आकर्षामः आकर्षणं कुर्मः । प्रसीद आयच्छस्व आगच्छेत्यर्थः । शनकैः प्रचल प्रयाहीत्यर्थः । यशः कीर्तिं प्राप्नुहि ॥ प्रातिवेशिका इति ॥ यतः
 
[^१] शेषं नयतेति भवद्वचनं सत्यं कुरु, त्वं शेषः अवशिष्टः इतरेषां क्षुद्रसर्पत्वात्, आदिशेषस्य च भूभारे नियुक्तत्वात् इति चमत्कारवाचा वासुकिमभ्युपगमयति ॥