This page has been fully proofread once and needs a second look.

तृतीयाश्वासः
 
२५३
 
'क्षुद्रैः किं करणीयमेभिरुरगैः क्षीणायुषामन्तकैः

या शेषं नयतेति वागजनि ते सैवास्तु सत्याधुना ।

भूभारे ह्युपयुक्त एष विदितस्सर्वैस्ततोऽन्यः पुनः
 

त्वं शेषो'[^१] भवसीति निश्चित धियस्त्वामेव याचामहे ॥ ६ ॥

 
अपि श्लक्ष्णीकुर्मो मणिवदचलं पाणिकषणैः

अपि त्वां वोढास्मस्सुखशयितमादुग्धजलधेः ।

सुखं चाकर्षामस्तदुपरि यथा तुष्यति भवान्

प्रसीदायच्छस्व प्रचल शनकैः प्राप्नुहि यशः ॥ ६२ ॥

 
किं बहुना । प्रातिवेशिका वयं भवतः परिचितहृदयाश्च चिर-
Z

 
[comment
a
 
ry]
 
क्षुद्रैरिति ॥ क्षीणं नष्टं आयुर्जीवितकांकालो येषां ते तथाभूतानाम्। 'आयुर्जीवितकालो
ना' इत्यमरः । अन्तकैर्मारकैः । अत एव क्षुद्रैः कदर्यैः, 'कदर्ये कृपणक्षुद्र किम्प-
'
चानमितम्पचाः' इत्यमरः । एभिरुरगैः पन्नगैः करणीयं कर्तव्यं किम् । एतैः
साध्यं न भवतीति भावः । शेषं नयतेत्येवं ते तथा वागजनि अजायतासीदिति
वाऽर्थः । सा वागेव अधुना सत्या अवितथा अस्तु भवतु । सर्वैः विदितः ज्ञातः एषो-
s
पि शेषोऽपीत्यर्थः । भूभारे भूमिधारणविषये उपयुक्तः । ततः तस्मात् भूमिभार- -
कादन्यः शेषः पुनः अवशिष्टस्त्वित्यर्थः । त्वं भवानेवासि भवसीत्यर्थः । इति इत्थं
निश्चितघिधियः निर्णीतबुद्धयः वयं त्वामेव याचामहे प्रार्थयामहे ॥ अपीति ॥ अचलं
मन्दरमँपि पाणिभिः हस्तैः,' कषणानि घर्षणानि, तैर्मणिना तुल्यं मणिवच्छ्लक्ष्णीकुर्मः
'
कृशीकुर्मः । 'श्लक्ष्णं सूक्ष्मंस्भ्रं कृशं तनु' इत्यमरः । आदुग्धजलधेः
'
क्षीरसमुद्रमभिव्याप्य त्वां भवन्तमपि, सुखेन अनायासेन, शयितम् । भावे क्तः ।
स्वापो यस्मिन् कर्मणि तत्तथा । वोढास्मः भुजेषु वक्ष्याम इत्यर्थः ॥ 'वह
 
प्रापणे' इतिं 'घाति धातोर्लुट् । 'संहिवहोरोदवर्णस्य' (6-3-112६.३.११२) इत्योत्वम् । यथा
"
भवान् तुष्यति हर्षं प्राप्नोषि, तदुपरि मन्दरोपरि, आवेष्ट्येति शेषः । सुखमनायासं
यथा तथा आकर्षामः आकर्षणं कुर्मः । प्रसीद आयच्छस्व आगच्छेत्यर्थः । शनकैः
प्रचल प्रयाहीत्यर्थ: 1थः । यशः कीर्तितिं प्राप्नुहि ॥ प्रातिवेशिका इति ॥ यतः
 
1.

 
[^१]
शेषं नयतेति भवद्वचनं सत्यं कुरु, त्वं शेषः अवशिष्ट:टः इतरेषां क्षुद्रसर्पत्वात्,
आदिशेषस्य च भूभारे नियुक्तत्वात् इति चमत्कारवाचा वासुकिमभ्युपगमयति ॥