This page has been fully proofread twice.

परं तु ।
 
मूले वालधिमग्रतः सुरगिरेर्मौळिं च मे बध्नता
कल्पे प्राचि पिनाकिना भगवताऽऽकृष्टोऽस्मि यल्लीलया ।
तत्कालश्लथसन्धिबन्धपरिवृत्तास्थीनि मर्माणि तान्य-
द्यापि स्मितजृम्भितक्षवथुषु स्वाच्छन्द्ययमुच्छिन्दते ॥ ५९॥
 
अपि च ।
 
यस्तल्पेष्वपि कोमलेषु शयितुं शक्नोमि नाश्मस्विव
त्यक्त्वा कुण्डलतां स्वपन्नपि च यो नायन्तुमद्योत्सहे ।
 
[commentary]
 
काद्रवेयास्तदीश्वराः' इत्यमरः । साहायकं सहायस्य कर्म अनुवर्तनं तन्नियोगानुरूपम् आचरितव्यं कर्तव्यमित्येवं न्यायस्सदसद्विवेक एव मां चोदयति प्रेरयति, अत्रास्मिन्नर्थे भवतां युष्माकं विज्ञापनेन, आवेदनेन किं फलमिति शेषः ॥ परं त्विति । परन्तु किंत्वित्यर्थः । प्राचि प्राक्तने कल्पे पद्मादिसंज्ञकब्राह्मदिवसे । कल्पलक्षणमुक्तम् अमरेण 'दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम् । दैवे
युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ।' इति । यदित्यव्ययं वेत्यर्थकं तात्पर्यप्रकरणाभ्याम् । अथवा हेत्वर्थः । 'यत्तद्यतस्ततो हेतौ' इत्यमरः । सुरगिरेर्मेरुपर्वतस्य मूले मूलदेशे मे वालधिं लाङ्गूलं अग्रतः शिखरदेशे मौळिंमुत्तमाङ्गं बध्नता बन्धं कुर्वता भगवता पिनाकिना परमेश्वरेण लीलया विलासेन आकृष्टः समाकर्षणं गमित इत्यर्थः । त्रिपुरसंहारकाले धनुष्टंकारार्थमिति भावः । स चासौ कालश्चेति तत्कालः तस्मिन् श्लथानि भग्नानि सन्धीनां वङ्क्षणानां बन्धाः कीलाः, परिवृत्तानि व्यत्यस्तानि अस्थीनि च येषां तानि । तथाभूतानि मर्माणि मर्मस्थानानि, अद्य इदानीमपि, स्मितजृम्भितक्षवथुषु स्मितं ईषद्धसनम् । 'सोत्प्रासस्स मनाक् स्मितम्' इत्यमरः । जृम्भितं जृम्भणम् । 'जृम्भस्तु त्रिषु जृम्भणम्' इत्यमरः । क्षवथुः कासः । 'स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्' इत्यमरः । स्वच्छन्दः स्वतन्त्रः । 'स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः' इत्यमरः । तस्य भावः स्वाच्छन्द्यं उच्छिन्दते । रौधादिकादुत्पूर्वात्' 'छिदिर् द्वेधीकरणे' इति धातोर्लटि झस्, अन्तादेशः ॥ अपि चेति ॥ योऽहं कोमलानि मृदूनि । 'कोमलं मृदुलं मृदु' इत्यमरः । तथाभूतेषु तल्पेषु