This page has been fully proofread once and needs a second look.

"तृतीयाभ्यास:
 
परं तु ।
 

 
मूले वालघिधिमग्रतः सुरगिरेर्मौळिळिं च मे बध्नता
 

कल्पे प्राचि पिनाकिना भगवताऽऽकृष्टोऽस्मि यल्लीलया ।

तत्काल श्लथसन्धिबन्धपरिवृत्तास्थीनि मर्माणि तान्य-
२५१
 
I
 

द्यापि स्मितजृम्भितक्षवधुथुषु स्वाच्छन्द्यमुच्छिन्दते ॥ ५९॥
 

 
अपि च ।
 

 
यस्तल्पेष्वपि कोमलेषु शयितुं शक्नोमि नाश्मस्विव

त्यक्त्वा कुण्डलतां स्वपन्नपि च यो नायन्तुमद्योत्सहे ।
 

 
[commentary]
 
काद्रवेयास्तदीश्वराः' इत्यमरः । साहायकं सहायस्य कर्म अनुवर्त
नं तन्नियोगानुरूपम् आचरितव्यं कर्तव्यमित्येवं न्यायस्सदसद्विवेक एव मां चोदयति
प्रेरयति, अलात्रास्मिन्नर्थे भवतां युष्माकं विज्ञापनेन, आवेदनेन किं फलमिति शेषः
॥ परं त्विति । परन्तु किंत्वित्यर्थ:थः । प्राचि प्राक्तने कल्पे पद्मादिसंज्ञ-
कब्राह्मदिवसे । कल्पलक्षणमुक्तम् अमरेण 'दिव्यैर्वर्षसहस्रैर्द्वादशभिर्देदैवतं युगम् । दैवे

युगसहलेस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ।' इति । यदित्यव्ययं वेत्यर्थकं
तात्पर्यप्रकरणाभ्याम् । अथवा हेत्वर्थ:थः । 'यत्तद्यतस्ततो हेतौ' इत्यमरः ।
सुरगिरेर्मेरुपर्वतस्य मूले मूलदेशे मे वालविंधिं लाङ्गूलं अग्रतः शिखरदेशे
मौळिंमुत्तमाङ्गंध्नता बन्धं कुर्वता भगवता पिनाकिना परमेश्वरेण लीलया विलासेन
आकृष्टः समाकर्षणं गमित इत्यर्थः । त्रिपुरसंहारकाले धनुष्टंकारार्थमिति भावः ।
स चासौंसौ कालश्चेति तत्कालः तस्मिन् श्लथानि भग्नानि सन्धीनां वङ्क्षणानां
बन्धाः कीलाः, परिवृत्तानिस्तान व्यत्यस्तानि अस्थीनि च येषां तानि । तथाभूतानि
मर्माणि मर्मस्थानानि, अद्य इदानीमपि, स्मितजृम्भितक्षवथुषु स्मितं ईषद्धसनम् ।
'सोत्प्लासस्स मॅरासस्स मनाक् स्मितम् ' ' इत्यमरः । जृम्भितं जृम्भणम् । 'जृम्भस्तु त्रिषु
 
21
 
Sal
 
जन्म
जृम्भणम्' इत्यमरः । क्षवधुःथुः कास:सः । 'स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु
 
2.
 
क्षवयुःथुः पुमान्' इत्यमरः । स्वच्छन्दः स्वतन्त्रः । 'स्वतन्त्रोऽपावृतः स्वैरी
स्वच्छन्दो निरवग्रहः' इत्यमरः । तस्य भावः स्वाच्छन्धंद्यं उच्छिन्दते । रौघाधादिका-
ABSHS
 
दुत्पूर्वात्' 'छिदिर् द्वेषीधीकरणे' इति धातोर्लटि झस्, अन्तादेशः ॥ अपि चेति ॥ यो-
ऽहं कोमलानि मृदूनि । 'कोमलं मृदुलं मृदु' इत्यमरः । तथाभूतेषु तल्पेषु