2023-08-14 06:19:59 by Bharadwajraki
This page has been fully proofread twice.
पन्नगाश्वासनपरिभ्रान्तबन्धुजननिरन्तरम्, अर्णवनिमज्जदचलराजसम्मर्दनिर्दळदतलवितलादिलोक- निष्पेषघोषभीषिताश्वसदाश्वस्तविहस्तजानपदजनाकीर्णम् अतितूर्णमुद्गच्छदादिकच्छपनिष्ठुरपृष्ठ- सङ्घट्टनस्फुटितशैलशिलाभङ्गसमुच्चलदभङ्गुरस्फुलिङ्गपरिष्वङ्गदन्दह्यमाननगरग्रामपल्ली- निवेशम्, निरन्तरोत्पातधारानिरीक्षणसाध्वसेन पतिष्यति नाम भूतलम्, चलिष्यति नाम सुमेरुः, स्फुटिष्यति नाम विध्यण्डकपालम्, प्रवेक्ष्यति नाम सागरः,
[commentary]
कन्दरा तैरुद्वान्ता उद्गीर्णा मूच्छिताः मूर्च्छनं प्राप्ताः ये पन्नगास्सर्पाः तेषामाश्वासनं खेदापनयनं तदर्थं परिभ्रान्ता विघूर्णमाना ये बन्धुजनाः पुत्रमित्रादयः तैर्निरन्तरं निरवकाशं, सान्द्रमिति यावत् । अर्णवे, निमज्जन् नितरां मज्जनं कुर्वन्, योऽचलराजो मन्दरस्तस्य सम्मर्दस्सङ्घर्षणं, तेन निर्दळन्तः विस्फुटन्तः, येऽतलवितलादयो लोकाः जनाः । 'लोकस्तु भुवने जने' इत्यमरः । तेषां निष्पेषो नितरां
पेषणं तेन यो घोषो नादः तेन भीषिताः भीताः, आश्वसन्तः, इतरखेदानपनयन्तः आश्वस्ता इतरैः आश्वासं प्रापिताश्च, ये विहस्ताः व्याकुलाः । 'विहस्तव्याकुलौ समौ इत्यमरः । जानपदजनाः देशीयजनाः तैराकीर्णं व्याप्तमित्यर्थः । अतितूर्णम् अतिशीघ्रम् । 'सत्त्वरं चपलं तूर्णम्' इत्यमरः । उद्गच्छन् उत्पतन् । उद्भवन्निति वा । यः आदिकच्छपो महाकूर्मः तस्य निष्ठुरं यत्पृष्ठं चरमाङ्गं तस्य सङ्घट्टनमाघातः तेन स्फुटिता दळिताः याः शैलशिला मन्दरोपलाः तासां भङ्गो नाशः तेन समुच्चलन्तः उत्पतन्तः, ये अभङ्गुराः अनश्वराः, स्फुलिङ्गाः अग्निकणाः तेषां यः परिष्वङ्गः सम्बन्धः तेन दन्दह्यमाना अतिशयेन भस्मीभूताः ये नगरग्रामपल्लीनिवेशाः यस्मिन् तत् पुरसंवसथकुटीगृहा यस्मिन् तदित्यर्थः । 'नगरं नगवत्पुरे' इति हेमचन्द्रः । 'समौ संवसथग्रामौ' इत्यमरः । 'कुटीग्रामकयो पल्ली' इति शाश्वतः । 'निवेशरशरणं क्षयः' इत्यमरश्च । निरन्तरं सन्ततं, यदुत्पातधाराणाम् उल्कापातधूमकेतुरक्तपरिवेषादिभाव्यशुभसूचकपरम्पराणां निरीक्षणं दर्शनं, तस्मात् यत्साध्वसं भयं तेन भूतलं भूलोकः पतिष्यति पतनं करिष्यति नाम । स्वोपरीति भावः । सुमेरुः हेमाद्रिः चलिष्यति नाम गमिष्यति किलेत्यर्थः । विध्यण्डकपालं ब्रह्माण्डकटाहः, स्फुटिष्यति नाम दळिष्यति किमित्यर्थः । सागरः अर्णवः, प्रवेक्ष्यति नाम प्रवेशं करिष्यति किम् । रसातलं प्रतीति शेषः । आदिशेष: भुवनभारं लोकधुरं परित्यक्ष्यति नाम