2023-08-14 06:19:43 by Bharadwajraki
This page has been fully proofread once and needs a second look.
तृतीयोश्वासः
२४९
-पत्रपन्नगाश्वासनपरिभ्रान्तबन्धुजननिरन्तरम्, अर्णवनिमज्जदचलराजसम्मर्द -
-
निर्दळदतलवितलादिलोक- निष्पेषघोषभीषिताश्वसदाश्वस्तविहस्तजानपद -
जनाकीर्णम् अतितूर्णमुद्गच्छदादिकच्छ पनिष्ठुरपृष्ठ- सङ्घट्टनस्फुटितशैलशि-
लाभङ्गस मुञ्च्चलदभङ्गुरस्फुलिङ्गपरिष्वङ्गदन्दह्यमान
नगरग्रामपल्ली- निवेशम्,
निरन्तरोत्पातधारानिरीक्षणसाध्वसेन पतिष्यति नाम भूतलम्, चलिष्यति
नाम सुमेरुरुः, स्फुटिष्यति नाम विध्यण्डकपालम्, प्रवेक्ष्यति नाम सागरः,
.
[commentary]
कन्दरा तैरुद्वान्ता उद्गीर्णा मूच्छिताः मूर्च्छनं प्राप्ताः ये पन्नगास्सर्पा:पाः तेषामा-
श्वासननं खेदापनयनं तदर्थं परिभ्रान्ता विघूर्णमाना ये बन्धुजनाः पुत्रमित्रादयः
तैर्निरन्तरं निरवकाशशं, सान्द्रमिति यावत् । अर्णवे, निमज्जन् नितरां मज्जनं कुर्वन्,
योऽचलराजो मन्दरस्तस्य सम्मर्दस्सङ्घर्षणं, तेन निर्दळन्तः विस्फुटन्तः, येऽतलवित-
लादयो लोकाः जनाः । 'लोकस्तु भुवने जने' इत्यमरः । तेषां निष्पेषो नितरां
पेषणं तेन यो घोषो नादः तेन भीषिताः भीताः, आश्वसन्तः, इतरखेदानपनयन्तः
आश्वस्ता इतरैः आश्वासं प्रापिताश्च, ये विहस्ताः व्याकुला:लाः । 'विहस्तव्याकुलौ
समौ इत्यमरः । जानपदजना:नाः देशीयजनानाः तैराकीर्णं व्याप्तमित्यर्थः ।
अतितूर्णम् अतिशीघ्रम् । 'सत्त्वरं चपलं तूर्णम्' इत्यमरः । उद्गच्छन् उत्पतन् ।
उद्भवन्निति वा । यः आदिकच्छपो महाकूर्म:मः तस्य निष्ठुरं यत्पृष्ठं चरमाङ्गं
तस्य सङ्घदट्टनमाघातः तेन स्फुटिता दळिताः याः शैलशिला मन्दरोपलाः तासां
भङ्गो नाशः तेन समुच्चलन्ततः उत्पतन्तः, ये- • अभङ्गुराः अनश्वराः, स्फुलिङ्गाः
अग्निकणाः तेषां यः परिष्वङ्गः सम्बन्धः तेन दन्दह्यमाना अतिशयेन भस्मीभूताः
ये नगरग्रामपल्लीनिवेशाः यस्मिन् तत् पुरसंवसथकुटीगृहा यस्मिन् तदित्यर्थः ।
'नगरं नगवत्पुरे' इति हेमचन्द्रः । 'समौ संवसथग्रामौ' इत्यमरः । 'कुटीग्राम -
कयो पल्ली' इति शाश्वतः । 'निवेशरशरणं क्षयः' इत्यमरथश्च । निरन्तरं
सन्ततं, यदुत्पातधाराणाम् उल्कापातधूमकेतुरक्तपरिवेषादिभाव्यशुभसूचकपरम्प-
राणां निरीक्षणं दर्शनं, तस्मात् यत्साध्वसं भयं तेन भूतलं भूलोकः पतिष्यति पतनं
करिष्यति नाम । स्वोपरीति भावः । सुमेरु:रुः हेमाद्रिः चलिष्यति नाम गमिष्यति
किलेत्यर्थः । विध्यण्डकपालं ब्रह्माण्डकटाहहः, स्फुटिष्यति नाम दळिष्यति
किमित्यर्थः । सागर:रः अर्णवः, प्रवेक्ष्यति नाम प्रवेशशं करिष्यति किम् ।
रसातलं प्रतीति शेषः । आदिशेष: भुवनभारं लोकधुरं परित्यक्ष्यति नाम
१.
N - 32