This page has not been fully proofread.

तृतीयोश्वासः
 
२४९
 
-पत्रगाश्वासनपरिभ्रान्तबन्धुजननिरन्तरम्, अर्णवनिमज्जदचलराजसम्मर्द -
 
-
 
निर्दळदतलवितलादिलोकनिष्पेषघोषभीषिताश्वसदाश्वस्तविहस्तजानपद -
जनाकीर्णम् अतितूर्णमुद्गच्छदादिकच्छ पनिष्ठुरपृष्ठसङ्घट्टनस्फुटितशैलशि-
लाभङ्गस मुञ्चलदभङ्गुरस्फुलिङ्गपरिष्वङ्गदन्दह्यमान
नगरग्रामपल्लीनिवेशम्,
निरन्तरोत्पातधारानिरीक्षणसाध्वसेन पतिष्यति नाम भूतलम्, चलिष्यति
नाम सुमेरु, स्फुटिष्यति नाम विध्यण्डकपालम्, प्रवेक्ष्यति नाम सागरः,
 
.
 
कन्दरा तैरुद्वान्ता उद्गीर्णा मूच्छिताः मूर्च्छनं प्राप्ताः ये पन्नगास्सर्पा: तेषामा-
श्वासन खेदापनयनं तदर्थं परिभ्रान्ता विघूर्णमाना ये बन्धुजनाः पुत्रमित्रादयः
तैर्निरन्तरं निरवकाश, सान्द्रमिति यावत् । अर्णवे, निमज्जन् नितरां मज्जनं कुर्वन्,
योऽचलराजो मन्दरस्तस्य सम्मर्दस्सङ्घर्षणं, तेन निर्दळन्तः विस्फुटन्तः, येऽतलवित-
लादयो लोकाः जनाः । 'लोकस्तु भुवने जने' इत्यमरः । तेषां निष्पेषो नितरां
पेषणं तेन यो घोषो नादः तेन भीषिताः भीताः, आश्वसन्तः, इतरखेदानपनयन्तः
आश्वस्ता इतरैः आश्वासं प्रापिताश्च, ये विहस्ताः व्याकुला: । 'विहस्तव्याकुलौ
समौ इत्यमरः । जानपदजना: देशीयजना तैराकीर्णं व्याप्तमित्यर्थः ।
अतितूर्णम् अतिशीघ्रम् । 'सत्त्वरं चपलं तूर्णम्' इत्यमरः । उद्गच्छन् उत्पतन् ।
उद्भवन्निति वा । यः आदिकच्छपो महाकूर्म: तस्य निष्ठुरं यत्पृष्ठं चरमाङ्गं
तस्य सङ्घदनमाघातः तेन स्फुटिता दळिताः याः शैलशिला मन्दरोपलाः तासां
भङ्गो नाशः तेन समुचलन्त उत्पतन्तः, ये- • अभङ्गुराः अनश्वराः, स्फुलिङ्गाः
अग्निकणाः तेषां यः परिष्वङ्गः सम्बन्धः तेन दन्दह्यमाना अतिशयेन भस्मीभूताः
ये नगरग्रामपल्लीनिवेशाः यस्मिन् तत् पुरसंवसथकुटीगृहा यस्मिन् तदित्यर्थः ।
'नगरं नगवत्पुरे' इति हेमचन्द्रः । 'समौ संवसथग्रामौ' इत्यमरः । 'कुटीग्राम -
कयो पल्ली' इति शाश्वतः । 'निवेशरशरणं क्षयः' इत्यमरथ । निरन्तरं
सन्ततं, यदुत्पातधाराणाम् उल्कापातधूमकेतुरक्तपरिवेषादिभाव्यशुभसूचकपरम्प-
राणां निरीक्षणं दर्शनं, तस्मात् यत्साध्वसं भयं तेन भूतलं भूलोकः पतिष्यति पतनं
करिष्यति नाम । स्वोपरीति भावः । सुमेरु: हेमाद्रिः चलिष्यति नाम गमिष्यति
किलेत्यर्थः । विध्यण्डकपालं ब्रह्माण्डकटाह, स्फुटिष्यति नाम दळिष्यति
किमित्यर्थः । सागर: अर्णवः प्रवेक्ष्यति नाम प्रवेश करिष्यति किम् ।
रसातलं प्रतीति शेषः । आदिशेष: भुवनभारं लोकधुरं परित्यक्ष्यति नाम
 
१.
 
N - 32