2023-08-14 05:54:58 by Bharadwajraki
This page has been fully proofread twice.
वयममुनानुग्रहेण किमतः परं करवामेति विज्ञापयत्सु विनयेन गरुडध्वजं समानयत वासुकिमित्यनुशशास[^१] समीपगतञ्चतुराननः ।
ततस्तथेति प्रतिगृह्य शासनं तस्य निर्जिहाना बहिर्निर्जराः [^२]समानग्रामा यूयमेव समानयत वासुकिं सान्त्वनेनेति प्रार्थयामासुरसुरवरान् ।
प्रागेव पाताळजुषां प्रवृत्तिं जिज्ञासवो दारकुमारकाणाम् ।
ते मन्दरोद्धारबिलाध्वनैव सद्योऽवतेरुर्दनुजाः प्रहृष्टाः ॥५८ ॥
प्रविशन्तश्च ते ददृशुरतर्कितोद्धृतमन्दरमूलकन्दरोद्वान्तमूर्च्छित-
[commentary]
चारप्रशान्तिषु' इति नानार्थमाला । तेन गरुडध्वजं श्रीहरिं, किम्[^३] इतः परं इत उत्तरं किं करवाम किं कर्तव्यमिति विज्ञापयत्सु निवेदयत्सु सत्सु समीपगतः अन्तिकस्थः, चतुराननो ब्रह्मा वासुकिं सर्पराजम् । 'वासुकिस्तु सर्पराजोऽथ गोनसः' इत्यमरः । समानयत समागमयतेत्यर्थः । इतः परं वासुक्यागमनेन भवितव्यमिति भावः । इति इत्थमाशशास आदिदेशेत्यर्थः ॥ तत इति ॥ ततः अनन्तरं तथेति तथा भवत्वित्यर्थः । तस्य ब्रह्मणश्शासनमादेशं, प्रतिगृह्य स्वीकृत्य, बहिः बाह्यदेशं प्रतीत्यर्थः । 'सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने' इत्यमरः । निर्जिहाना निगच्छन्तः, निर्जरा देवाः समानग्रामाः एकग्रामवासिनो यूयमेव वासुकिं सर्पराजं सान्त्वनेन प्रियवचनेन । 'सान्त्वनं प्रियभाषणम्' इत्यमरः । समानयत समानयनं कुरुध्वम् इति इत्थं, असुरवरान् बल्यादीन्, प्रार्थयामासुः प्रार्थनं चक्रुरित्यर्थः ॥ प्रागिति ॥ पाताळं पाताळलोकं जुषन्ते सेवन्त इति ते तथा । 'जुषी प्रीतिसेवने' इति धातोः क्विप् । तथाभूतानां दारकुमारकाणां कळत्रपुत्रादीनां प्रवृत्तिं वृत्तान्तम् । 'वार्ता प्रवृत्तिर्वृत्तान्तः' इत्यमरः । प्रागेव आदेशात् पूर्वमेव जिज्ञासवः ज्ञातुमिच्छवः ते दनुजा असुराः प्रहृष्टास्सन्तुष्टास्सन्तः सद्य एव प्रार्थनासमकालमेव मन्दरस्योद्धारः उद्धरणं तस्य बिलाध्वा रन्ध्रमार्गः तेनैव अवतेरुः अवतीर्णा बभूवुरित्यर्थः ॥ प्रविशन्त इति ॥ प्रविशन्तः प्रवेशं कुर्वन्तः, ते दानवाः
अतर्कितम् असम्भावितं यथा तथा उद्धृतः उत्पाटितः यः मन्दरः तस्य ये मूल-
[^१] 'आशशास"इति व्याख्यापाठः ।
[^२] समानग्रामाणां तादृशं समानजातीयमानेतुं नैवातिक्लेशः इति सूचयति ॥
[^३] 'अतः परम्' इति मूलपाठः । 'इतः परम्' इति व्याख्यापाठः ।