This page has been fully proofread once and needs a second look.

नीलकण्ठविजये संभ्याख्याने
 
वयममुनानुग्रहेण किमतः परं करवामेति विज्ञापयत्सु विनयेन गरुडध्वजं
समानयत वासुकिमित्यनुशशास'[^१] समीपगतञ्चतुराननः ।
 

 
ततस्तथेति प्रतिगृह्य शासनं तस्य निर्जिहाना बहिर्निर्जरा: 2स-
राः [^२]समानग्रामा यूयमेव समानयत वासुकिं सान्त्वनेनेति प्रार्थयामासुरसुर-
वरान् ।
 
वरान् ।
 
प्रागेव पाताळजुषां प्रवृत्तितिं जिज्ञासवो दारकुमारकाणाम् ।

ते मन्दरोडार द्धारबिलाध्वनैव सद्योऽवतेरुर्दनुजाः प्रहृष्टाः ॥५८ ॥

 
प्रविशन्तश्च ते ददृशुस्तर्कितोद्धृत मन्दरमूलकन्दरोद्वान्तमूर्च्छित-

 
[commentary]
 
चारप्रशान्तिषु' इति नानार्थमाला । तेन गरुडध्वजं श्रीहरिं, किम्[^३] इतः परं इत
उत्तरं किं करवाम किं कर्तव्यमिति विज्ञापयत्सु निवेदयत्सु सत्सु समीपगतः अन्ति-
कस्थ:थः, चतुराननो ब्रह्मा वासुकिकिं सर्पराजम् । 'वासुकिस्तु सर्पराजोऽथ गोनस: '
सः' इत्यमरः । समानयत समागमयतेत्यर्थः । इतः परं वासुक्यागमनेन भक्ति-
वितव्यमिति भाव:वः । इति इत्थमाशशांशास आदिदेशेत्यर्थः ॥ तत इति ॥ ततः
अनन्तरं तथेति तथा भवत्वित्यर्थः । तस्य ब्रह्मणश्शासनमादेशं, प्रतिगृह् स्वीकृत्य,
बहिः बाह्यदेशं प्रतीत्यर्थः । 'सना नित्ये बहि: र्बाह्यदेश प्रतीत्यर्थ: । 'सना नित्ये बहिर्बाये स्मातीतेऽस्तमदर्शने' इत्यमरः ।
निर्जिहाना निगच्छन्तः, निर्जरा देवाः समानग्रामाः एकग्रामवासिनो यूयमेव वासुकिं
सर्परा
जं सान्त्वनेन प्रियवचनेन । 'सान्त्वनं प्रियभाषणम्' इत्यमरः । समानयत
समानयन
समानयनं कुरुध्वम् इति इत्थं, असुरवरान् बल्यादीन्, प्रार्थयामासुः प्रार्थनं चक्रुरित्यर्थः
॥ प्रागिति ॥ पाताळं पाताळलोकं जुषन्ते सेवन्त इति ते तथा । 'जुषी प्रीति-
सेवने' इति घाधातोः किक्विप् । तथाभूतानां दारकुमारकाणां कळत्रपुत्रादीनां प्रवृत्तिं
वृत्तान्तम् । 'वार्ता प्रवृत्तिर्वृत्तान्तः' इत्यमरः । प्रागेव आदेशात् पूर्वमेव जिज्ञासवः
ज्ञातुमिच्छव;वः ते दनुजा असुराः प्रहृष्टास्सन्तुष्टास्सन्तः सद्य एव प्रार्थनासमकाल-
मेव मन्दरस्योद्धार;रः उद्धरणं तस्य बिलाध्वा रन्ध्रमार्गः तेनैव अवतेरुः अवतीर्णा
बभूवुरित्यर्थः ॥ प्रविशन्त इति ॥ प्रविशन्तः प्रवेशं कुर्वन्तः, ते दानवाः

अतर्कितम् असम्भावितं यथा तथा उद्धृतः उत्पाटितः यः मन्दरः तस्य ये मूल-
-B-1

 
[^१]
'आशशास"इति व्याख्यापाठः
 
2. समानप्

 
[^२] समानग्
रामाणां - तादृशं समानजातीयमानेतुं नैवातिक्लेश:शः इति सूयति ॥
3.

 
[^३]
'अतः परम्' इति मूलपाठः । "'इतः परम्' इति व्याख्यापाठः ।