2023-08-14 05:41:36 by Bharadwajraki
This page has been fully proofread twice.
उत्क्षिप्तः प्रतनुरिवोपलो बलिष्ठैः
अद्रिर्द्रागुदपतदर्णवाद्विदूरे ॥ ५६ ॥
अपि च ।
aउद्वान्तसागरपयोभररिक्तगर्भ-
पर्यन्तकन्दरगळत्पवनौ गिरीन्द्रः ।
मग्नोत्थितः सलिलतो महता श्रमेण
निस्सीमनिःश्वसितखिन्न इवाबभासे ॥ ५७ ॥
आलक्ष्य च तदाश्चर्यमानन्दमन्थरेषु बृन्दारकेषु, कृताथा
[commentary]
प्रत्यागच्छन् यः कमठः कूर्मः तस्य यत्कठोरं कठिन पश्चिमाङ्गं पृष्ठभागः । 'कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्' इत्यमरः । तस्य व्यासङ्गः सम्बन्धः तेन प्रशिथिलः अजीर्णभुग्न इत्यर्थः । तथाविधः मूलसन्निवेशः मूलप्रदेशः, यस्य सः । अद्रिर्मन्दराचलः बलिष्ठैः केवलबलशालिभिः उत्क्षिप्तः बलाद्दूरे प्रपातित इत्यर्थः । प्रतनुः सूक्ष्मः उपलः पाषाण इव अर्णवात्समुद्रात् । ल्यब्लोपे पञ्चमी । विदूरे उदपतत् पाताळादुदक्षिपत् । अत्र पातालात् द्राक् मन्दरोद्धारणार्थम् एवम् ऊर्ध्वं उद्गच्छतः कूर्मस्य पृष्ठभागेन ऊर्ध्वदेशात् प्रक्षिप्तस्य मज्जतो मन्दरस्य सङ्घर्षणात् श्लक्ष्णीभावः । ततः तत्पृष्ठावधूननपूर्वप्रक्षेपादर्णवं विहाय बलाद्बलिष्ठोत्क्षिप्तलोष्टवद्दूरे पातश्चासीदिति भावः । अपि चेति ॥ उद्वान्तानि उद्गीर्णानि यानि सागरपयांसि तेषां भराः धुरः । 'भरोऽतिशयभारयोः' इति नानार्थमाला । तैः रिक्ताः शून्याः 'गर्भा येषां ते तथाविधा ये पर्यन्तकन्दराः परिसरदर्यः तेभ्यो गळन् निस्सरन्, पवनो वायुः यस्य स तथाभूतः गिरीन्द्रो मन्दरः सलिलतो जलान्मग्नोत्थितः । स्नातानुलिप्तवत्समासः । अत एव महता अधिकेन, श्रमेण आयासेन, निस्सीमानि निर्मर्यादानि निःश्वसितानि यस्य स तथाभूतश्चासौ यः खिन्नः खेदयुक्तः तादृशः पुमानिव आबभासे प्रचकाशे । अत्र पुमानिति शेषो बोघ्यः ॥ आलक्ष्येति ॥ तदाश्चर्यं तं विस्मयमालक्ष्य दृष्ट्वा आनन्देन खुखेन, मन्थराः अलसाः, तथाभूतेषु देवेषु विनयः नमनादिः । 'विनयो नतिधर्मादिशिक्षा-
a. कमठोत्क्षिप्तं मन्दरमुत्प्रेक्षते कविः ५७ पद्येन ।