This page has not been fully proofread.

तृतीयाश्वासः
 
'उत्क्षिप्तः प्रतनुरिवोपलो बलिष्ठैः
अद्विगुदफ्तदर्णवाद्विदूरे ॥ ५६ ॥
 
अपि च !,
 
>
 
२४७
 
"उद्वान्तसागरपयोभर रिक्तगर्भ-
पर्यन्तकन्दरगळत्पवनौ गिरीन्द्रः ।
 
मनोत्थितः सलिलतो महता श्रमेण
निस्सीमनिःश्वसित खिन्न इवाबभासे ॥ ५७ ॥
 
आलक्ष्य च तदाश्रर्यमानन्दमन्थरेषु बृन्दारकेषु, कृताथां
 
प्रत्यागच्छन् यः कमठः कूर्म: तस्य यत्कठोरं कठिन पश्चिमाङ्गं पृष्ठभागः ।
'कर्कश कठिन क्रूरं कठोरं निष्ठुरं दृढम्' इत्यमरः । तस्य व्यासङ्गः सम्बन्धः तेन
प्रशिथिल: अजीणमुग्न इत्यर्थः । तथाविध: मूलसन्निवेश: मूलप्रदेश:, यस्य सः।
अंद्रिर्मन्दराचल: बलिष्ठैः केवलबलशालिंभि: उत्क्षिप्तः बलाद्दूरे प्रपातित
इत्यर्थः । प्रतनुः सूक्ष्मः उपल: पाषाण इव अर्णवात्समुद्रात् । ल्यब्लोपे पञ्चमी ।
विदूरे उदपतत् पाताळादुदक्षिपत् । अत्र पातालात् द्राकू मन्दरोद्धारणार्थम् एवम्
ऊर्ध्वं उद्गच्छतः कूर्मस्य पृष्ठभागेन ऊर्ध्वदेशात् प्रक्षिप्तस्य मज्जतो मन्दरस्य सङ्घर्षणात्
श्लक्ष्णीभावः। ततः तत्पृष्ठावधूंन नपूर्वप्रक्षेपादर्णवं विहाय बंलाइलिष्ठोत्क्षिप्तलोष्टवद्दूरे
पातश्चासीदिति भावः । अपि चेति ॥ उद्वान्तानि उद्गीर्णानि यानि सागरपयांसि
तेषां भराः धुरः। 'भरोऽतिशयभारयोः' इति नानार्थमाला । तैः रिक्ताः
शून्या: 'गर्भा येषा ते तथाविधा ये पर्यन्तकन्दराः परिसरदर्य: तेभ्यो गळन्
निस्सरन्, पवनो वायुः यस्य स तथाभूतः गिरीन्द्रो मन्दरः सलिलतो जलान्मग्नो-
त्थितः । स्नातानुलिप्तवत्समासः । अत एव महता अधिकेन, श्रमेण आयासेन,
निस्सीमानि निमर्यादानि निःश्वसितानि यस्य स तथाभूतश्वांसौ यः खिन्नः
वेदयुक्त: 'तादृशः 'पुमानिव आबभासे प्रचकाशे । अत्र पुमानिति शेषो बोघ्यः ॥
आलक्ष्येति ॥ तदाश्चर्य तं विस्मयमालक्ष्य दृष्ट्वा आनन्देन खुखेन, मन्थरा:
अलसाः, तथाभूतेषु देवेषु विनय: नमनादिः । 'विनयो नतिधर्मादिशिक्षा-
"
 
8. कमोत्क्षिसं मन्दरमुत्प्रेक्षते कवि: - 57 पथेन ।