This page has been fully proofread twice.

मस्तोममस्तकेनेव[^१] च मस्तकेन परमाद्भुतेन समुद्भवन्नवनिगर्भात् चापमुक्त इव सायकस्समग्रेण रंहसा समुत्पपात महान् कमठः ।
 
प्रत्युद्यत्कमठकठोरपश्चिमाङ्ग-
व्यासङ्गप्रशिथिलमूलसन्निवेशः ।
 
[commentary]
 
क्रोशद्वयं पुनः । गव्यूतं स्त्री तु गव्यूतिस्तद्द्वयं योजनं मतम् ॥' इति । चरमाङ्गेन पृष्ठभागेन । पराशरस्य अपत्यं पुमान् पाराशर्यः व्यासः तत्सम्बन्धी यस्संक्षेपः स्वल्पीकरणं तेन परिमिताः इयत्तां प्राप्तास्तथाभूताः अनुश्रवा वेदाः तैरेव चरणैः चतुर्भिः पादैः सङ्कोचविकासौ हस्ववृद्धी फलं यस्यास्सा तथाभूतया मायया त्रिगुणात्मकप्रकृत्या प्रळयकाले तस्यास्सङ्कोचः सृष्टिकाले तस्याः विकास इति भावः । तयेव स्थितया कन्धरया ग्रीवया । 'कण्ठो गळोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि' इत्यमरः । समस्तास्सकलाः ये आगमाः वेदाङ्गशास्त्राणि । 'आगमस्त्वागते शास्त्रे' इति नानार्थमालायाम् । तेषां स्तोमः समूहः तस्य मस्तिष्कं घनीभूतस्सारांशः । 'तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्' इत्यमरः । तेनैव स्थितेन परमाद्भुतेन अत्याश्चर्यकरेण कदाप्यदृष्टत्वादिति भावः । मस्तकेन मूर्ध्ना । 'मूर्धा ना मस्तकोऽस्त्रियाम् इत्यमरः । भूभारेण भङ्गुरो यो भुजङ्गपुङ्गवः शेषः तस्य यो भोगः कायः तस्य ये वलयाः वेष्टनाः तेषां बृंहणादभिवृद्धेरिवेत्यर्थः । 'बृहि वृद्धौ' इति धातोः परिपूर्वाद्भावे ल्युट्प्रत्ययः । आगळं कायं बहुवलयं कृत्वा गळदेशमुत्क्षिप्य च भूमिं भृतवतश्शेषस्य एकत्रैव देवासुरावस्थानप्रयुक्तभारवशाद्गळदेशस्य नमनात् सोऽप्येको वलयस्सञ्जात इति वलयाभिवृद्धिरिति भावः । अवनिः भूमिस्तस्याः गर्भः कुक्षिदेशः । 'कुक्षिभ्रूणार्भका गर्भा' इत्यमरः । तस्मात् चापो धनुस्तस्मान्मुक्तः उत्सृष्टः सायको बाण इव । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्' 'शरे खड्गे च सायकाः' इति च अमरः । समग्रेण अखण्डेन । 'समग्रं सकलं पूर्णमखण्डं स्यात्' इत्यमरः । रंहसा वेगेन । 'रंहस्तरसी तु रयः स्यदः’ इत्यमरः । समुद्भवन् आविर्भवन् महानधिकः कमठः कूर्मः । 'कूर्मे कमठकच्छपौ' इत्यमरः । समुद्र इति शेषः । समुत्पपात उत्पुलुत्य पतनं चकारेत्यर्थः । उत्पद्यमान एव समुद्रमाविवेशेति भावः ॥ प्रत्युद्यदिति ॥ प्रत्युद्यन्
 
[^१] 'मस्तकेनेव' मूलपाठः । 'मस्तिष्केन' इति व्याख्यापाठः ॥