This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सेव्याख्याने
 
p
 
मस्तोममस्तकेनेव'[^१] च मस्तकेंकेन परमाद्भुतेन समुद्भवन्नवनिगर्भात्
चापमुक्त इव सायकस्संमग्रेण रंहसा समुत्पपात महान् कमठः ।

 
प्रत्युद्यत्कमठकठोरपश्चिमांमाङ्ग-

व्यासङ्गप्रशिथिलमूलसन्निवेशः ।
 
२४६
 

 
[commentary]
 
क्रोशद्वयं पुनः । गव्यूतं स्त्री तु गव्यूतिस्तद्द्वयं योजनं मतम् ॥' इति । चरमाङ्गेन
पृष्ठभागेन । पराशरस्य अपत्यं पुमान् पाराशर्यः व्यासः तत्सम्बन्धी यस्संक्षेपः
स्वल्पीकरणं तेन परिमिता:ताः इयत्तां प्राप्तास्तथाभूताः अनुश्रवा वेदाः तैरेव चरणैः
चतुर्भिः पादैः सङ्कोचविकासौ हस्ववृद्धी फलं यस्यास्सा तथाभूतया मायया
त्रिगुणात्मकप्रकृत्या प्रळयकाले तस्यास्सङ्कोच:चः सृष्टिकाले तस्याः विकास इति
भावः । तयेव स्थितया कन्धरया ग्रीवया । 'कण्ठो गळोऽथ ग्रीवायां शिरोधिः
कन्धरेत्यपि' इत्यमरः । समस्तास्सकलाः ये आगमा:माः वेदाङ्गशास्त्राणि । 'आग-
मस्त्वागते शास्त्रे' इति नानार्थमालायाम् । तेषां स्तोमः समूहः तस्य मस्तिष्कं
घनीभूतस्सारांश:शः । 'तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्' इत्यमरः ।
तेनैव स्थितेन परमाद्भुतेन अत्याश्चर्यकरेण कदाप्यदृष्टत्वादिति भावः । मस्तकेन
मूर्ध्ना । 'मूर्धा ना मस्तकोऽस्त्रियाम् इत्यमरः । भूभारेण भङ्गुरो यो भुजङ्ग
पुङ्गवः शेष:षः तस्य यो भोग:गः कायः तस्य ये वलया:याः वेष्टनाः तेषां बृंहणादभि -
वृद्धेरिवेत्यर्थः । 'बृहि वृद्धौ' इति धातोः परिपूर्वाद्भावे ल्युट्प्रत्ययः । आगळं
कायं बहुवलयं कृत्वा गळदेशमुत्क्षिप्य च भूमिं भृतवतश्शेषस्य एकत्रैव देवासुरा-
वस्थानप्रयुक्तभारवशाद्गळदेशस्य नमनात् सोऽप्येको वलयस्सञ्जात इति वलयाभि-
वृद्धिरिति भावः । अवनिः भूमिस्तस्याः गर्भ:भः कुक्षिदेशः । 'कुक्षिभ्रूणार्का गर्भा'
इत्यमरः । तस्मात् चापो धनुस्तस्मान्मुक्त:तः उत्सृष्ट:टः सायको बाण इव । 'धनुश्वाचापो
न्वशरासनकोदण्डकार्मुकम्' 'शरे खड्ङ्गे च सायका : काः' इति च अमरः । समग्रेण
अखण्डेन । 'समग्रं सकलं पूर्णमखण्डं स्यात्' इत्यमरः । रंहसा वेगेन । 'रंहस्तरसी
.
तु. रयः स्यदः इत्यमरः । समुद्भवन् आविर्भवन् महानधिक कमठकः कमठः कूर्मः ।
'क
'कूर्मे कमठकच्छपौ' इत्यमरः । समुद्र इति शेषः । समुत्पपात उत्पुलुत्य पतनं
चकारेत्यर्थः । उत्पद्यमान एव समुद्रमाविवेशेति भावः ॥ प्रत्युद्यदिति ॥ प्रत्युद्यन्
मस्तकें

 
[^१] 'मस्तके
नेव' मूलपाठ:ठः । 'मस्तिष्केन' इति व्याख्यापाठः ॥
 
+
 
....
 
*
 
1,