This page has been fully proofread twice.

विमलपावनैः परिवहत्करुणासारसान्द्रितैः कटाक्षैरनुगृह्य, कल्पतरुपल्लवोल्लासिना कैवल्यलक्ष्मीनिवासमन्दिरेण करारविन्देन तानाश्वासयामास । तत्क्षणं च भूभारभङ्गुरभुजङ्गपुङ्गवभोगवलयपरिबृंहणादिव कुलिशकर्कशाणनिकृष्टवज्रफलकस्त्रिग्धेन सर्वतोऽप्यशेषभुवनात्मनाप्ययुतयोजनमात्रविस्तारशालिना चरमाङ्गेन, पाराशर्यसंक्षेपपरिमितैरनुश्रवैरेव चतुर्भिश्चरणैः, सङ्कोचविकासशीलया माययेव कन्धरया, समस्ताग-
 
[commentary]
 
नरविन्दलोचनः श्रीहरिः, प्रसादः अनुग्रहः तेन विमलाः निर्मलाः, तथाभूतैः प्रवहन्ती प्रसरन्ती या करुणा कृपा, तस्याः आसारः अविच्छेदस्रुतिः तेन सान्द्रितैः मेदुरीकृतैः । 'सान्द्रः स्निग्धस्तु मेदुरः' इत्यमरः । कटाक्षैः अपाङ्गदर्शनैः। 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । अनुगृह्य अनुग्रहं कृत्वा । सादरं दृष्ट्वेति भावः । कल्पतरुपल्लवः कल्पवृक्षकिसलयम् । 'मत्स्येऽथ पल्लवः । अस्त्री प्रवाळे ना षिद्ग'
इति नानार्थमाला । तद्वदुल्लासिना विकासशीलेनेत्यर्थः । प्रार्थितार्थदात्रेति भावः । 'कैवल्यं मुक्तिः । 'मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्' इत्यमरः । तदेव लक्ष्मीः तस्याः निवासमन्दिरेण आवासस्थानेन करारविन्देन हस्तपद्मेन तान् देवासुरान् अश्वासयामास समादधे ॥ तत्क्षणं चेति ॥ अथ भगवान्कमठरूपी सन्नवततारेत्याह ॥ भूभारेति ॥ कुलिशं वज्रायुधं तद्वत्कर्कशं कठिनम् । 'कुलिश भिदुरं पविः' इत्यमरः । कर्कशं कठिनं क्रूरमिति च । तथाभूतेन 'शाणः कषोपलः शाणचक्रमिति यावत् । 'शाणस्तु निकषः कषः इत्यमरः । तेन निर्घृष्टं समीकृतं, यद्वज्रफलकम् अखण्डहीरकं तेनेव स्थितेन । 'वज्रोऽस्त्री हीरकेऽपि वा’ इति विश्वः । स्निग्धेन मसृणेन । मेदुरेणेति वाऽर्थः, 'चिक्कणं मसृणं स्निग्धम्' 'सान्द्रः स्निग्धस्तु मेदुरः' इति च अमरः । अशेषं कृत्स्नं यद्भुवनं
लोकः तदेव आत्मा शरीरं यस्य सः । 'विश्वमशेषं कृत्स्नम्' इत्यमरः । 'विष्टपं भुवन जगत्' 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इति सर्वत्र अमरः । 'सर्वतोऽपि सर्वत्रापि, अयुतयोजनानि दशसहस्रसङ्ख्याकानि योजनानि प्रमाणं यस्य सः । 'प्रमाणे द्वयसच् --' (५.२.३१) इत्यादिना मात्रच्प्रत्ययः । अयुतयोजनमात्रश्चासौ यो विस्तरः विवृत्तिः । 'विस्तारो विग्रहो व्यासः स तु शब्दस्य विस्तरः' इत्यमरः । तेन शालिना शोभिनेत्यर्थः । परिमितौ क्रियमाणायामाहत्य दशसहस्रयोजनविस्तारोऽस्ति पृष्ठभाग इति भावः । अत्रेदं बोध्यम् -- 'धन्वन्तरसहस्रं तु क्रोशः