2023-06-05 16:40:25 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
विमलपी वनः परिवहत्करुणासारसान्द्रितैः कटाक्षैरनुगृह्य, कल्पतरुपल्लवी-
लासिना कैवल्यलक्ष्मीनिवासमन्दिरेण करारविन्देन तानाश्वासयामास ।
तत्क्षणं च भूभारभङ्गुरभुजङ्गपुङ्गवभोगवलयपरिबृंहणादिव कुलिशकर्क-
शाणनिकृष्टवज्रफलक स्त्रिग्धेन सर्वतोऽप्यशेषभुवनात्मनाप्ययुतयोजन-
मात्रविस्तारशालिना चरमाङ्गेन, पाराशर्यसंक्षेपपरिमितैरनुश्रवैरेव
चतुर्भिश्चरणैः, सङ्कोचविकासशीलया माययेव कन्धरया, समस्ताग-
नरविन्दलोचनः श्रीहरिः, प्रसादः अनुग्रहः तेन विमला: निर्मलाः, तथाभूतैः प्रव-
हन्ती प्रसरन्ती या करुणा कृपा, तस्याः आसारः अविच्छेद स्रुतिः तेन सान्द्रितैः
मेदुरीकृतैः । 'सान्द्रः स्निग्धस्तु मेदुरः' इत्यमरः । कटाक्षैः अपाङ्गदर्शनैः।
'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । अनुगृह्य अनुग्रहं कृत्वा । सादरं दृष्टेति भावः ।
कल्पतरुपल्लव: कल्पवृक्ष किसलयम् । 'मत्स्येऽथ पल्लवः । अस्त्री प्रवाळे ना षिद्ग'
इति नानाथमाला । तद्वदुल्लासिना विकासशीले नेत्यर्थः । प्रार्थितार्थदात्रेति भावः ।
'कैवल्य मुक्तिः । 'मुक्तिः कैवल्य निर्वाणश्रेयोनिः श्रेयसामृतम्' इत्यमरः । तदेव
(लक्ष्मी: तस्याः निवासमन्दिरेण आवासस्थानेन करारविन्देन हस्तपद्मेन
तान् देवासुरान् अश्वासयामास समादधे ॥ तत्क्षणं चेति ॥ अथ भगवान्
कमठरूपी सन्नवततारेत्याह ॥ भूभारेति ॥ कुलिशं वज्रायुधं तद्वत्कर्कशं कठिनम् ।
'कुलिश भिदुरं पविः' इत्यमरः । कर्कश कठिनं क्रूर मिति च । तथाभूतेन
'शाण: कषोपल: शाणचकमिति यावत् । 'शाणस्तु निकषः कष: इत्यमरः ।
तेन निर्घृष्ट समीकृतं, यद्वज्रफलकम् अखण्डहीरकं तेनेव स्थितेन । 'वज्रोऽस्त्री
हीरकेऽपि वा इति विश्वः । स्निग्धेन मसृणेन । मेदुरेणेति वाऽर्थः, 'चिकणं
मसृणे स्निग्धम्' 'सान्द्रः स्निग्धस्तु मेदुरः' इति च अमरः । अशेषं कृत्स्नं यद्भुवनं
लोकः तदेव आत्मा शरीरं यस्य सः । 'विश्वमशेषं कृत्स्नम्' इत्यमरः। 'विष्टपं
"भुवन जगत्" 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च ' इति सर्वत्र अमरः ।
'सर्वतोऽपि सर्वत्रापि, अयुतयोजनानि दशसहस्रसङ्ख्याकानि योजनानि प्रमाणं यस्य
'सः। 'प्रमाणे द्वयसच्–' (5-2-31) इत्यादिना मात्र प्रत्ययः । अयुतयोजनमात्रश्चासौ
'यो विस्तरः विवृत्तिः । 'विस्तारो विग्रहो व्यास: स तु शब्दस्य विस्तर ः' इत्यमरः ।
तेन शालिना शोभिनेत्यर्थः । परिमितौ क्रियमाणायामाहत्य दशसहस्रयोजन-
विस्तारोऽस्ति पृष्ठभाग इति भावः । अत्रेदं बोध्यम् – 'धन्वन्तरसहस्रं तु क्रोश: