This page has been fully proofread twice.

[^१]मज्जति मज्जति शैले पतति च [^२]पततीह कुलमिदं द्युसदाम् ।
शरणं शरणमतस्त्वं शार्ङ्गधरेति प्रचुक्रुशे विबुधैः ॥ ५५ ॥
 
ततश्चकितसुरासुरस्तोमुसंस्तूयमानो भगवानरविन्दलोचनः प्रसाद-
 
[commentary]
 
र्णांसि जलानि । 'अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्' इत्यमरः । तेषां भरोऽतिशयः । 'भरोऽतिशयभारयोः' इति नानार्थमाला । तस्य स्वैरं स्वच्छन्दं यथा तथा । 'मन्दस्वच्छन्दयोस्स्वैरः' इत्यमरः । यः उज्जागरः जागरूको, घोषः नादः । 'स्वाननिर्घोषनिर्ह्राद’ इत्यमरः । तेन भीषणो भयङ्करः । 'दारुणं भीषणं भीष्मम्’ इत्यमरः । तथाविधः पयःकल्लोलिनीवल्लभः क्षीरसरित्पतिः येषु ते तथाभूताः । अत्र कल्लोलिनीशब्दस्तरङ्गिणीशब्दपर्याय इति बोध्यम् । खेदेन सन्तापेन, स्तम्भिताः स्तब्धाः कृताः, ये किंपचानविबुधाः क्षुद्रदेवाः । 'कदर्ये कृपणक्षुदकिंपचानमितम्पचाः' इत्यमरः । 'विबुधौ देवविद्वांसौ' इति नानार्थमाला च । तैः प्रारब्धाः उपक्रान्ताः, भूरि स्तवाः स्तुतयो येषु ते तथाभूताः । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । ते तथाविधाः केचित् एके एकक्षणाः मुख्यकालविशेषाः । 'एकोऽन्यार्थे प्रधाने च' 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्यमरः । गोविन्दस्य कुतूहलं कौतुकम् । 'कुतुकं च कुतूहलम्' इत्यमरः । विदधिरे चक्रुरित्यर्थः ॥ मज्जतीति ॥ यत इति आदिः । शैले मन्दरपर्वते मज्जति मग्ने सति दिवि सीदन्तीति द्युसदः दे॒देवाः । 'सत्सूद्विष --' (३.२.६१) इत्यादिना क्विप् । तेषां कौतुकं कुतूहलं मज्जति मग्नं भवतीत्यर्थः । वर्तमाने लट् । शैले पतति गच्छति सति । 'पत्लृ गतौ' इति धातोर्लटश्शत्रादेशः । द्युसदां कौतुकं च पतति गच्छति । पूर्ववल्लट् । अतः कारणात् हे शार्ङ्गधर विष्णो त्वं भवानिह शरणं रक्षकः । 'शरणं गृहरक्षित्रोः' इत्यमरः । इति इत्थं विबुधैः देवैः प्रचुक्रुशे रोदनमाह्वानं वा कृतमित्यर्थः । 'क्रुश आह्वाने रोदने च' इति धातोर्भावे लिट् । अत्र शार्ङ्गधरेति विशेष्यं रक्षणसामर्थ्यसत्ताभिप्रायगर्भमिति परिकराङ्कुरालङ्कारः, 'साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः' इति लक्षणात् ॥ तत इति ॥ ततो विबुधाक्रोशानन्तरं चकिता भीता ये सुरासुराः तेषां स्तोमेन संस्तूयमानः स्तुतः, भगवा-
 
[^१] मज्जति = शत्रन्तस्य सप्तमी, मज्जति = प्रथमपुरुषैकवचनम् । एवं पततीत्यत्रापि ।
 
[^२] 'पततीह कौतुकं द्युसदाम्' इति व्याख्यात्रभिमतः पाठः ।