This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
 
मज्जति मज्जति - शैले पतति च 'पततीह कुलमिदं घुसदाम् ।
शरण शरणमतस्त्व शार्ङ्गधरेति प्रचुकुशे विबुधैः ॥ ५५ ॥
 
ततश्चकितसुरासुरस्तो मुसंस्तूयमानो भगवानरविन्दलोचनः प्रसाद-

 
र्णासि जलानि । 'अम्भोऽर्ण स्तोयपानी नीरक्षीराम्बुशम्बरम्' इत्यमरः । तेषां
भरोऽतिशयः । 'भरोऽतिशयभारयोः' इति नानार्थमाला । तस्य स्वैरं स्वच्छन्दं
यथा तथा । 'मन्दस्वच्छन्दयोस्स्वैर : ' इत्यमरः । यः उज्जागर: जागरूको, घोषः
नाद: । 'स्वाननिर्घोषनिद) इत्यमरः । तेन भीषणो भयङ्करः । 'दारुणं भीषणं
भीष्मम् इत्यमरः । तथाविध पय: कल्लोलिनीवल्लभः क्षीरसरित्पतिः येषु ते
तथाभूताः । अत्र कल्लोलिनी शब्दस्तरङ्गिणीशब्दपर्याय इति बोध्यम् । खेदेन
सन्तापेन, स्तम्भिता स्तब्धाः कृताः, ये किंपचानविबुधाः क्षुद्रदेवा: । 'कद
कृपणक्षुदकिंपचानमितम्पचाः' इत्यमरः । 'विबुधौ देवविद्वांसौ ' इति नानार्थ-
माला च । तैः प्रारब्धाः उपक्रान्ताः, मूरि स्तवाः स्तुतयो येषु ते तथाभूताः ।
'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । ते तथाविधाः केचित् एके एकक्षणाः मुख्य-
कालविशेषाः। एकोऽन्यार्थे प्रधाने च निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षण: '
इत्यमरः । गोविन्दस्य कुतूहलं कौतुकम् । 'कुतुकं च कुतूहलम्' इत्यमरः । विदधिरे
चकुरित्यर्थः ॥ मजतीति ॥ यत इति आदिः । शैले मन्दरपर्वते मज्जति मग्ने
सृति दिवि सीदन्तीति घुसदः दे॒वाः । 'सत्सूद्विष–' (3-2-61) इत्यादिना किप् ।
तेषां कौतुकं कुतूहलं मज्जति मग्न भवतीत्यर्थः । वर्तमाने लट् । शैले पतति
गच्छति सति । 'पत्ल गतौ' इति घातोलेटश्शत्रुादेशः । धुसदां कौतुकं च पतति
गच्छति । पूर्ववलट् । अतः कारणात् हे शार्ङ्गधर विष्णो त्वं भवानिह शरणं
रक्षकः । 'शरणं गृहरक्षित्रोः' इत्यमरः । इति इत्थं विबुधैः देवैः प्रचुकशे सेद-
नमाहानं वा कृतमित्यर्थ: । 'क्रुश आह्वाने रोदने च' इति धातोर्भावे लिट् । अत्र
शार्ङ्गघरेति विशेष्यं रक्षण सामर्थ्यसत्ताभिप्रायगर्भमिति परिकराङ्कुरालङ्कारः, 'साभि-
प्राये विशेष्ये तु भवेत्सरिकरार:' इति लक्षणात् ॥ तत इति ॥ ततो विबुधा-
कोशानन्तरं चकिता भीता ये सुससुराः तेषां स्तोमेन संस्तूयमानः स्तुतः, भगवा-
i
 
3
 
1. मज्जति = शत्रन्तस्य सप्तमी, मजति = प्रथमपुरुषैकवचनम् । एवं पततीत्यत्रापि ।
2 'पततीह कौतुकं घुसदार इति व्याख्यात्रभिमतः पाठः ।