This page has been fully proofread twice.


 
॥ श्रीः ॥
 
श्रीगुरुचरणारविन्दाभ्यां नमः
 
श्रीमन्नीलकण्ठदीक्षितप्रणीतः
 
नीलकण्ठविजयः ।
 
श्रीमन्महादेवसूरिविरचितविबुधानन्दव्याख्यासहितः ।
 
------------
 
अथ प्रथमाश्वासः ।
 
वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते ।
किं दम्पतिमिति ब्रूयामुताहो दम्पती इति ॥ १ ॥ ॥
 
[commentary]
 
॥ श्रीनीलण्ठविजये प्रथामाश्वासव्याख्यानप्रारम्भः ॥
 
यत्कृपालवमात्रेण मादृशोऽपि बुधायते ।
तां वन्दे कञ्जनयनां वाणीं वैधससुन्दरीम् ॥
 
वेल्लालकुलसम्भूतमहादेवेन सूरिणा ।
विवृतिश्श्रीनीलकण्ठविजयस्य विरच्यते ॥
 
इह खलु गुरुमुखावगतनिखिलश्रुतिस्मृतिपुराणेतिहासरहस्यः सम्परिशीलितवैयासिकन्यायनिचयो महान्नीलकण्ठदीक्षितकविश्शिवपारम्यं विवक्षुः वस्तुतश्शिवोत्कर्षकथनप्रवृत्तानां स्वकार्येऽन्तराया-सम्भवादन्तरायनिवर्तकोप।पायस्य अफलत्वेऽपि शिष्टाचारपरिपालनाय मङ्गळमनुतिष्ठन् स्वेष्टदेवतामवाङ्मनसगोचरमुमामहेश्वरात्मकं नतिकर्म परं ब्रह्म शब्दानभिधेयत्वेन निर्दिशति ॥ वन्द इति ॥ वाञ्छितलाभाय वाञ्छितानामिष्टार्थानां लाभाय प्राप्त्यै, वन्दे अभिवादये । नतिकर्म परं ब्रह्म
गम्यतया[^१] स्पष्टं नोच्यत इत्याह ॥ कर्मेति ॥ कर्म नमनकर्म । किमिति चेत् किं पृच्छायां जुगुप्सने ' इत्यमरः । तत्कर्म न कथ्यते स्पष्टं नोच्यत इत्यर्थः । ननु
वदिधातोस्सकर्मकत्वात्तत्समभिव्याहारे कर्माभिधानेऽवश्यकर्तव्येऽपि तदनभिघाधानं कुत इति चेत्, दम्पतिशब्दस्यापभ्रंशेन द्वितीयान्ताभासेन दम्पतिमित्यनेन
 
[^१] उत्तमकाव्ये व्यङ्ग्यत्वमेवोचितम् ।