This page has been fully proofread once and needs a second look.

॥ श्रोः ॥

 
॥ श्रीः ॥
 
श्रीगुरुचरणारविन्दाभ्यां नमः

 
श्रीमन्नीलकण्ठदीक्षितप्रणीतः
 

 
नीलकण्ठ विजयः ।
 

 
श्रीमन्महादेवसूरिविरचित विबुधानन्दव्याख्यासहितः ।
 

 
------------
 
अथ प्रथमाश्वासः ।
 

 
वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते ।
 

किं दम्पतिमिति ब्रूयामुताहो दम्पती इति ॥ १ ॥ ॥
 

 
॥ श्रीनीलण्ठविजये प्रथामाश्वासव्याख्यानप्रारम्भः ॥

 
यत्कृपालवमात्रेण मादृशोऽपि बुधायते ।

तां वन्दे कञ्जनयनां वाणीं वैधससुन्दरीम् ॥

 
वेल्लालकुल सम्भूतमहादेवेन सूरिणा ।

विवृतिश्श्रीनीलकण्ठविजयस्य विरच्यते ॥
 

 
इह खलु गुरुमुखावगतनिखिलश्रुतिस्मृतिपुराणेतिहासरहस्यः सम्परिशी-
लितवैयासिकन्यायनिचयो महान्नीलकण्ठदीक्षितक विश्शिवपारम्यं विवक्षुः वस्तुतश्शि-
वोत्कर्ष कथनप्रवृत्तानां स्वक, कार्येऽन्तराया -सम्भवादन्तरायनिवर्तकोप।यस्य अफलत्वेऽपि
शिष्टाचारपरिपालनाय मङ्गळमनुतिष्ठन् स्वेष्टदेवतामवाङ्मनसगोचरमुमामहेश्वरात्मकं
नतिकर्म परं ब्रह्म शब्दानभिधेयत्वेन निर्दिशति ॥ वन्द इति ॥ वाञ्छितलाभाय
वाञ्छिताना मिष्टार्थानां लाभाय प्राप्त्यै, वन्दे अभिवादये । नतिकर्म परं ब्रह्म

गम्यतया'[^१] स्पष्टं नोच्यत इत्याह ॥ कर्मेति ॥ कर्म नमनकर्म । किमिति चेत्
'
किं पृच्छायां जुगुप्सने ' इत्यमरः । तत्कर्म न कथ्यते स्पष्टं नोच्यत इत्यर्थः ।
ननु
दिधातोस्सकर्मकत्वात्तत्समभिव्याहारे कर्माभिधानेऽवश्यकर्तव्येऽपि तदन-
भिघानं कुत इति चेत्, दम्पतिशब्दस्यापभ्रंशेन द्वितीयान्ताभासेन दम्पति, ममित्यनेन
1.

 
[^१]
उत्तमकाव्ये व्यङ्गयत्वमेवोचितम् ।