2023-06-05 16:38:54 by ambuda-bot
This page has not been fully proofread.
॥ श्रोः ॥
श्रीगुरुचरणारविन्दाभ्यां नमः
श्रीमन्नीलकण्ठदीक्षितप्रणीतः
नीलकण्ठ विजयः ।
श्रीमन्महादेवसूरिविरचित विबुधानन्दव्याख्यासहितः ।
अथ प्रथमाश्वासः ।
वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते ।
किं दम्पतिमिति ब्रूयामुताहो दम्पती इति ॥ १ ॥ ॥
॥ श्रीनीलण्ठविजये प्रथामाश्वासव्याख्यानप्रारम्भः ॥
यत्कृपालवमात्रेण मादृशोऽपि बुधायते ।
तां वन्दे कञ्जनयनां वाणीं वैधससुन्दरीम् ॥
वेल्लालकुल सम्भूतमहादेवेन सूरिणा ।
विवृतिश्श्रीनीलकण्ठविजयस्य विरच्यते ॥
इह खलु गुरुमुखावगतनिखिलश्रुतिस्मृतिपुराणेतिहासरहस्यः सम्परिशी-
लितवैयासिकन्यायनिचयो महान्नीलकण्ठदीक्षितक विश्शिवपारम्यं विवक्षुः वस्तुतश्शि-
वोत्कर्ष कथनप्रवृत्तानां स्वक, र्येऽन्तराया सम्भवादन्तरायनिवर्तकोप।यस्य अफलत्वेऽपि
शिष्टाचारपरिपालनाय मङ्गळमनुतिष्ठन् स्वेष्टदेवतामवाङ्मनसगोचरमुमामहेश्वरात्मकं
नतिकर्म परं ब्रह्म शब्दानभिधेयत्वेन निर्दिशति ॥ वन्द इति ॥ वाञ्छितलाभाय
वाञ्छिताना मिष्टार्थानां लाभाय प्राप्त्यै, वन्दे अभिवादये । नतिकर्म परं ब्रह्म
गम्यतया' स्पष्टं नोच्यत इत्याह ॥ कर्मेति ॥ कर्म नमनकर्म । किमिति चेत्
' किं पृच्छायां जुगुप्सने ' इत्यमरः । तत्कर्म न कथ्यते स्पष्टं नोच्यत इत्यर्थः ।
ननु बदिधातोरसकर्मकत्वात्तत्समभिव्याहारे कर्माभिधानेऽवश्यकर्तव्येऽपि तदन-
भिघानं कुत इति चेत्, दम्पतिशब्दस्यापभ्रंशेन द्वितीयान्ताभासेन दम्पति, मत्यनेन
1. उत्तमकाव्ये व्यङ्गयत्वमेवोचितम् ।