This page has been fully proofread twice.

द्युलोकादुत्पतता च दुग्धपूरेण परिप्लाविता सिद्धनदी बभूव दुग्धनदी ।
 
संसिक्ताश्च पयसा मधुरेण सर्वतो नन्दनोद्यानवनपादपास्तदादि सुधामधुराणि सुवते फलानि ।
 
मज्जन्मन्दरशैलकन्दरपुटव्याघूर्णदर्णोभर-
स्वैरोज्जागरघोषभीषणपयःकल्लोलिनीवल्लभाः ।
खेदस्तम्भितकिम्पचानविबुधप्रारब्धभूरिस्तवा
गोविन्दस्य कुतूहलं विदधिरे ते केचिदेकक्षणाः[^१] ॥ ५४॥
 
[commentary]
 
ततोऽनन्तगुणं प्रोक्तं रसलिङ्गस्य पूजने ।' इति । सारसङ्ग्रहे तु -- 'शिवनाभिमयं लिङ्गं नित्यं पूज्यं मनीषिभिः । यच्छ्रेष्ठं सर्वलिङ्गेभ्यो गौरीसाम्बं न संशयः ।' इति । तत्रैव 'कृते रत्नमयं लिङ्गं त्रेतायां हेमसंभवम् । द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ॥' इति । बाणलिङ्गपरीक्षाप्रकारः शिवरहस्ये -- 'त्रिपञ्चसप्तधायत्तु तुलातुलितमादरात् । न याति समतां कर्तुं बाणलिङ्गमिति श्रुतम् । सपीठमसपीठं वा बाणलिङ्गं शिवात्मकम् । पूजनीयं प्रयत्नेन भुक्तिमुक्तिफलेप्सुभिः ॥ सालग्रामसहस्रेभ्यो बाणलिङ्गं विशिष्यते ।' इति । 'शिवलिङ्गार्चनेनैव मुक्तिर्भवति नान्यथा ।' इति च । प्रकृतमनुसरामः ॥ ऊर्ध्वमिति ॥ आद्युलोकात् स्वर्गलोकावधीत्यर्थः । ऊर्ध्वं ऊर्ध्वदेशं प्रति, उत्पतता उत्पतनं कुर्वता दुग्धपूरेण क्षीरपूरेण, परिप्लाविता सेचिता, सिद्धनदी गङ्गा दुग्धनदी क्षीरनदी बभूव सञ्जातेत्यर्थः ॥ संसिक्ता इति ॥ नन्दनोद्यानवनं नन्दनसंज्ञिकारामः । तस्मिन् ये पादापाः वृक्षाः ते सर्वतः स्कन्धशाखादिनिखिलदेशे यदेति शेषः । मधुरेण मधुररसेन पयसा क्षीरेण, संसिक्ताः सम्यक्सेचनं प्राप्ताः । तदादि । क्रियाविशेषणमेतत्, तत्कालमारभ्येति तात्पर्यार्थः । सुधा पीयूषं तद्वन्मधुराणि मधुररसविशिष्टानि फलानि सुवते जनयन्तीत्यर्थः । अथ मन्दरपातसमयो भगवतः हर्षायाजनीत्याशयेनाह ॥ मज्जन्निति ॥ मज्जन् मज्जनं कुर्वन्, यो मन्दरः तस्य कन्दरा दर्यः । 'दरी तु कन्दरो वा स्त्री' इत्यमरः । तेषु पुटं यथा तथा वक्रं बुद्बुदं वा यथा तथेत्यर्थः । 'चक्राणि पुटभेदाः स्युः' इत्यमरः । व्याघूर्णन्ति प्रवहन्ति यान्य-
 
[^१] गोविन्दस्य कुतूहलजननात् ते क्षणाः एकेमुख्या इत्यर्थः ॥