2023-06-05 16:40:25 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
२४३
धुलोकादुत्पतंता च दुग्धपूरेण परिप्लाविता सिद्धनदी बभूव दुग्धनदी ।
5 संसिक्ताश्च पयसा मधुरेण सर्वतो नन्दनोद्यानवनपादपास्तदादि
सुधामधुराणि सुवते फलानि ।
मज्जन्मन्दरशैलकन्दरपुटव्याघूर्णदर्णोभर-
'स्वैरोज्जागरघोषभीषणपयः कल्लोलिनीवल्लभाः ।
खेदस्तम्भितकिम्पचानविबुधप्रारब्धभूरिस्तवा
गोविन्दस्य कुतूहलं विदधिरे ते केचिदेकक्षणाः ॥ ५४॥
—
6
ततोऽनन्तगुणं प्रोक्तं रसलिङ्गस्य पूजने ।" इति । सारसङ्ग्रहे तु – 'शिवनाभि-
मय लिङ्गं नित्यं पूज्यं मनीषिभिः । यच्छ्रेष्ठं सर्वलिङ्गेभ्यो गौरीसाम्ब न संशयः ।"
इति । तत्रैव 'कृते रत्नमयं लिङ्गं त्रेतायां हेमसंभवम् । द्वापरे पारदं श्रेष्ठं पार्थिव तु
'कल' युगे ॥" इति । बाणलिङ्गपरीक्षाप्रकार: शिवरहस्ये – 'त्रिपञ्चसप्तधा
यतु] 'तुलातुलितमादरात् । न याति समतां कर्तुं बाणलिङ्गमिति श्रुतम् ।
सपीठमसपीठ वा बाणलिङ्गं शिवात्मकम् । पूजनीयं प्रयत्नेन भुक्तिमुक्तिफलेप्सुभिः॥
सालग्राम सहस्रेभ्यो बाणलिङ्गं विशिष्यते ।' इति । ● शिवलिङ्गार्चनेनैव
मुक्तिर्भवति नान्यथा ।' इति च । प्रकृतमनुसरामः ॥ ऊर्ध्वमिति ॥
आद्युलोकात् स्वर्गलोकावधीत्यर्थः । ऊर्ध्वं ऊर्ध्वदेशं प्रति, उत्पतता उत्पतनं
कुर्वता दुग्धपूरेण क्षीरपूरेण, परिप्लाविता सेचिता, सिद्धनदी गङ्गा दुग्ध-
नदी नदी बभूव सञ्जातेत्यर्थः ॥ संसिक्ता इति ॥ नन्दनोद्यानवनं
नन्दनसंज्ञिकारामः । तस्मिन् ये पादापा: वृक्षाः ते सर्वतः स्कन्ध-
"शाखादिनिखिलदेशे यदेति शेषः । मधुरेण मधुररसेन पयसा क्षीरेण,
सेंसिक्ताः सम्यक्सेचन प्राप्ताः । तदादि । क्रियाविशेषणमेतत् तत्काल
'मारभ्येति तात्पर्यार्थः । सुधा पीयूषं तद्वन्मधुराणि मधुररसविशिष्टानि फलानि
सुव॑ते जनयन्तीत्यर्थः । अथ मन्दरपातसमयो भगवतः हर्षायाजनीत्याशये-
नाह ॥ मज्जन्निति ॥ मज्जनू मज्जनं कुर्वन्, यो मन्दरः तस्य कन्दरा दर्यः ।
'दरी तुः कन्दरो वा स्त्री' इत्यमरः । तेषु पुटं यथा तथा वक्रं बुबुदं वा यथा
तथेत्यर्थः । 'चक्राणि पुटभेदाः स्युः' इत्यमरः । व्याघूर्णन्ति प्रवहन्ति यान्य-
•
1, गोविन्दस्य कुतूहलजननात् ते क्षणा: एके मुख्या इत्यर्थः ॥
"