This page has been fully proofread twice.

उन्मथितेषु च तन्मूलघट्टनादर्णवचरेषु जन्तुषु, ततः परिभ्रष्टाः करिण एव जलकरिणः, किराता एव जलमानुषाः, निर्झरचराश्शफरा एव तिमयश्च तिमिङ्गिलाश्च सम्पेदिरे । अपि च ।
 
पुनरवगाहमाने रसातलं गिरावभ्यर्णगतं दुग्धमा[^१]दायादाय सुखमभिषिञ्चन्तः पारमेश्वरं लिङ्गमभ्यनन्दन् नन्दिमुखा गणाः । ऊर्ध्वमा-
 
[commentary]
 
इति भावः ॥ उन्मथितेष्विति ॥ किञ्च तस्य मन्दरस्य मूलमधोदेशः तेन संघट्टनं घर्षणम्, तस्मादर्णवचरेषु समुद्रचारिषु जन्तुषु प्राणिषु उन्मथितेषु सत्सु ततो मन्दरात् परिभ्रष्टाः च्युताः करिणो गजा एव जलकरिणः जलगजाः किराताः व्याधा एव जलमानुषाः निर्झराः गिरिनद्यः तेषु चरास्सञ्चारिणः शफराः मीना एव तिमयः तिमिनामकमत्स्याः तिमिङ्गिलाश्च तिमिङ्गिलनामकमत्स्यविशेषाश्च संपेदिरे बभूवुरित्यर्थः ॥ अपि चेति ॥ रसातलं पातालावधीत्यर्थः । गिरौ मन्दरे । पुनश्शब्दोऽत्यर्थः । अवगाहमाने प्रविशति सति । शिखरस्था इति शेषः । नन्दिमुखाः नन्दीश्वरप्रभृतयः गणाः प्रमथगणाः अभ्यर्णम् अन्तिकं, गतं प्राप्तं, दुग्धं पयः, सुखम् अनायासतः, आदाय गृहीत्वा, पारमेश्वरं परमेश्वरसम्बन्धि लिङ्गं स्फटिकमरकतबाणवज्रादिरूपमित्यर्थः ।
अभिषिञ्चन्तः अभिषेकं कुर्वन्तरसन्तः अभ्यनन्दन् सन्तोषं प्रापुरित्यर्थः । क्षीराभिषेककरणलाभादिति
भावः । शिवलिङ्गाराधनमाहात्म्यमुक्तं दीपिकायाम् -- 'शिवलिङ्गसहस्राणां पूजया यत्फलं भवेत् । ततश्शतगुणं पुण्यं लिङ्गेऽनादिसमुद्भवे ॥ तस्माच्छतगुणं प्रोक्तं रत्नलिङ्गस्य पूजने। गोमेधिकादिलिंङ्गानि रत्नलिङ्गानि संज्ञिताः ॥ रत्नलिङ्गसहस्राणां पूजया यत्फलं भवेत् । ततश्शतगुणं पुण्यं धातुलिङ्गस्य पूजने ॥ धातुलिङ्गेष्वपि श्रेष्ठं हेमलिङ्गमिति श्रुतम् । धातुलिङ्गसहस्राणां पूजया यत्फलं भवेत् । ततश्शतगुणे पुण्यं मृत्तिकालिङ्गपूजने । मृल्लिङ्गानां सहस्रस्य पूजया यत्फलं भवेत् ॥ ततश्शतगुणं प्रोक्तं बाणलिङ्गस्य पूजने ।
 
[^१] अभिषेकप्रियश्शिवः, गन्धतैल, पञ्चामृत, पञ्चगव्य, दुग्ध, दध्याज्य, मधु, फलरसेक्षुरस, नारिकेलरस, कुङ्कुमकर्पूरमिश्रमलयजरस, मन्त्रपूतगङ्गातीर्थाख्यद्वादशद्रव्याभिषेकेषु गोक्षीराभिषेके सुतरां तृप्यतीति प्रसिद्धिः शैवानाम् ॥
 
अपरिमितदुग्धलाभे किम्पुनः ॥ गङ्गाया दुग्धतुल्योदतां नन्दनपादानां सुधातुल्यफलदतां चोत्प्रेक्षते कविः । हेतुतूत्प्रेक्षेयम् ।