This page has not been fully proofread.

२४२
 
नीलकण्ठ विजये सव्याख्याने
 
उन्मथितेषु च तन्मूलघट्टनादर्णवचरेषु जन्तुषु, ततः परिभ्रष्टाः
करिण एव जलकरिण:, किराता एवं जलमानुषा:, निर्झरचराश फरा
एव तिमयश्च तिमिङ्गिलाश्च सम्पेदिरे । अपि च ।
 
पुनरवगाहमाने रसातलं गिरावभ्यर्णगतं दुग्धमा दायादाय सुख-
मभिषिञ्चन्तः पारमेश्वरं लिङ्गमभ्यनन्दन् नन्दिमुखा गणाः । ऊर्ध्वमा-
इति भावः ॥ उन्मथितेष्विति ॥ किञ्च तस्य मन्दरस्य मूलमघोदेशः तेन संघट्टनं
घर्षणम्, तस्मादर्णवचरेषु समुद्रचारिषु जन्तुषु प्राणिषु उन्मथितेषु सत्सु ततो
मन्दरात् परिभ्रष्टाः च्युताः करिणों गजा एव जलकरिण: जलगजाः किराता:
व्याधा एव जलमानुषा: निर्झरा: गिरिनद्यः तेषु चरास्सञ्चारिण: शफरा: मीना
एव तिमयः "तिमिनामकमत्स्याः तिमिङ्गिलाश्च तिमिङ्गिलनामकमत्स्यविशेषाश्च
संपेदिरे बभूवुरित्ययः ॥ अपि चेति ॥ रसातलं पातालावधीत्यर्थः । गिरौ
मन्दरें । पुनश्शब्दोऽत्यर्थः । अवगाहमाने प्रविशति सति । शिखरस्था इति
शेषः । नन्दिमुखाः नन्दीश्वरप्रभृतयः गणाः प्रमथगणाः अभ्यर्णम् अन्तिकं,
गत प्राप्त, दुग्धं पयः, सुखम् अनायासतः, आदाय गृहीत्वा, पारमेश्वरं परमेश्वर-
सम्बन्धि लिङ्गं स्फटिकमरकतत्राणवज्रादिरूपमित्यर्थः । अभिषिञ्चन्तः अभिषेकं.
कुर्वन्तरसन्तः अभ्यनन्दनू सन्तोषं प्रापुरित्यर्थ: । क्षीराभिषेककरणलाभादिति
भाव: । शिवलिङ्गाराधनमाहात्म्यमुक्तं दीपिकायाम् – 'शिवलिङ्गसहस्राणां पूजया
यत्फलं भवेत् । ततश्शतगुणं पुण्यामु॥ तस्माच्छतगुणं
प्रोक्तं रत्नलिङ्गस्य पूजने।" गोमेधिकादिलिंङ्गानि रत्नलिङ्गानि संज्ञिताः ॥
रतलिङ्गसहसाणां पूजया यत्फलं भवेत् । ततश्शतगुणं पुण्यं धातुल
पूजने ॥ घातुलिङ्गेष्वपि श्रेष्ठ हेमलिङ्गमिति श्रुतम् । धातुलिङ्गसहस्राणां पूजया
"ततश्शतगुणे पुण्य मृत्तिकालिङ्गपूजने । मृल्लिङ्गानां
 

 
8
 
FDIT
यत्फलं भवेत् ॥
 
सहस्रस्य पूजया यत्फलं भवेत् ॥ ततश्शतगुणं प्रोक्तं बाणलिङ्गस्य पूंजने ।
 
TOPA
 
C
 
1." अभिषेकप्रियश्शिवः; गन्धेतैल, पञ्चामृत, पञ्चगव्य, दुग्ध, दध्याज्य, मधु,
फलर सेक्षुरसानारिकेलर
समर्पूर मिश्रमलयजरस, मन्त्रपूतगातीर्थाख्यद्वादश-
द्रव्याभिषेकेषु गोक्षीराभिषेके सुतरां तृप्यतीति प्रसिद्धिः शैवानाम् ॥
 
अपरिमितदुग्धलामे किम्पुनः ॥ गङ्गाया दुग्धतुल्योदतां नन्दनपादानां सुधातुल्य फल
छतां चोत्प्रेक्षते कविः । हेतुत्प्रेक्षेयम् ।