This page has been fully proofread twice.

पाथि गिरिवरादस्माद्भारावसन्नसुरासुर-
प्रतिपदकृतस्कन्धव्यत्याससम्भ्रमकम्पितात् ।
मणिभिरभितो यस्यां यस्यां भुवि स्खलितं क्वचित्
समजनि खनिस्सा सा नाम स्थलेषु जलेषु च ॥ ५३॥
 
अपि च । विदूरादम्बरतलादापततोऽस्य महता वेगेन प्रकीर्यमाणे पर्यन्तगते निरवशेषं परिपीयमाने च दरीमुखैरेव परिसरगते पयसि, शून्यमिवार्णवं मन्यमाना नभश्चरा निर्ममज्जुरुभयेऽपि भये ।
 
[commentary]
 
इत्यमरः । लग्नाः संक्रान्ताः ते कणा एव ताराः । 'भं तारा तारकाप्युडु वा स्त्रियाम् ।' इत्यमरः । परिणेमुः परिणतिमापुः । इति इत्थम् प्रतीमः जानीमः ॥ पथीति ॥ पथि मार्गे, कचित्कुत्रचिद्भारः धूः तेन अवसन्नाः संपीडिताः ये सुरासुराः तैः । प्रतिपदं, वीप्सायामव्ययीभावः । कृतः रचितः स्कन्धानाम् अंसानां व्यत्यासः विपर्यासः, तद्भुजं विहाय एतद्भुजे वहनमेतद्भुजं विहाय तद्भुजे वहनमिति भावः । तस्मिन् संभ्रमस्त्वरा तेन कम्पितात् चालितात् अस्माद्गिरिवरात् मन्दरात्, मणिभिः यस्यां भुवि भूमौ स्खलितम् । भावे क्तः । स्खलनं जातमित्यर्थः । स्थलेषु प्रदेशविशेषेषु जलेषु च सा सा भूः खनिः आकरः समजनि अभवत् । 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः ॥ अपि चेति । दूरेति ॥ aदूराच्चिरकालगन्तव्यादित्यर्थः । bगगनतलात् अन्तरिक्षदेशात् आपततः पतनं कुर्वतः इत्यर्थः । अस्य मन्दराद्रेः महता अधिकेन, वेगेन गतिशैघ्र्येण, पर्यन्तः आसन्देशस्तद्गते तं प्राप्ते पयसि, प्रकीर्यमाणे विक्षिप्ते सति दर्यः कन्दराः ता एव मुखानि मुखभागाः तैरेव मुखैः वदनैः । श्लिष्टरूपकमेतत् । परिसरगते केवलसमीपदेशं प्राप्ते पयसि निरवशेषं निश्शेषं परिपीयमाने पीते सतीत्यर्थः । अर्णवमब्धिं शून्यमिव रिक्तमिव । 'असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके' इत्यमरः । मन्यमाना जानन्तः, नभसि चरन्तीति नभश्चराः देवासुराः उभये च भये भीतौ निर्ममज्जुः मग्ना बभूवुरित्यर्थः । एतावानायासः वृथा सञ्जात इत्यभिप्रायेण भीता
 
a. 'विदूरात्' इति मूलपाठः ।
 
b. 'अम्बरतलात्' इति मूलपाठः ।