This page has not been fully proofread.

तृतीयांश्वासः
पाधि गिरिवरादस्माद्धारावसन्नसुरासुर-
प्रतिपद कृतस्कन्धव्यत्याससम्भ्रमकम्पितात् ।
मणिभिरभितो यस्यां यस्यां भुवि स्खलितं कचित्
- समजनि खनिस्सा सा नाम स्थलेषु जलेषु च ॥ ५३॥
 
अपि च । विदूरादम्बरतलादापततोऽस्य महता वेगेन
प्रकीर्यमाणे पर्यन्तगते निरवशेष परिपीयमाने च दरीमुखैरेव परिसरगते
पयसि, शून्यमिवार्णवं मन्यमाना नभचरा निर्ममज्जुरुभयेऽपि भये ।
 
इत्यमरः । लमाः संक्रान्ताः ते कणा एव तारा: । 'भं तारा तारकाप्युडु वा
स्त्रियाम् ।' इत्यमरः । परिणेमु: परिणतिमापुः । इति इत्थम् प्रतीम: जानीमः
॥ पथीति ॥ पथि मार्गे, कचित्कुत्रचिद्भार: धूः तेन अवसन्नाः संपीडिताः ये
सुरासुराः तैः । प्रति॑िपदं, वीप्सायामव्ययीभावः । कृतः रचितः स्कन्धानाम् अंसानां
व्यत्यास: विपर्यासः, तद्भुजै विहाय एतद्भुजे वहनमेतद्भुजं विहाय तद्भुजे वहनमिति
भावः । तस्मिन् संभ्रमस्त्वरा तेन कम्पितात् चालितात् अस्मागिरिवरात् मन्द-
रात्, मणिभिः यस्यां भुवि भूमौ स्खलितम् । भावे क्त: । स्खलनं जातमित्यर्थः ।
स्थलेषु प्रदेशविशेषेषु जलेषु च सा सा भूः खनिः आकर: समजनि अभवत् ।
'खर्निः स्त्रियामाकरः स्यात्' इत्यमरः ॥ अपि चेति । दूरेति ॥ दूराचिरंका-
लगन्तव्यादित्यर्थः । 'गगनतलात् अन्तरिक्षदेशात् आपततः पतनं कुर्वतः
इत्यर्थः । अस्य मन्दराद्रेः महता अधिकेन, वेगेन गतिशैघ्रचेण, पर्यन्तः
आसन्देशस्तद्गते तं प्राप्ते पयसि, प्रकीर्यमाणे विक्षिप्ते सति दर्यः कन्दराः ता एव
मुखानि मुखभागाः तैरेव मुखैः वदनैः । श्लिष्टरूपकमेतत् । परिसरगते केवल-
समीपदेश प्राप्ते पयसि निरवशेषं निश्शेषं परिपीयमाने पीते सतीत्यर्थः । अर्णवमधि
शून्यमिव रिक्तमिव । 'असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके' इत्यमरः ।
मन्यमाना जानन्तः, नभसि चरन्तीति नभश्चराः देवासुराः उभये च भये भीतौ
निर्ममज्जु: ममा बभूवुरित्यर्थः । एतावानायासः वृथा सञ्जात इत्यभिप्रायेण भीता
 
"
 
200
 
विदूरात् इति मूलपाठः ।
 
b. 'अम्बरतलात्' इति मूलपाठः ।
 
N
 
२४१
 
- 31