This page has been fully proofread twice.

स्फुटितकमलजाण्डभाण्डप्रचण्डस्वेनोत्प्रेक्षण-
क्षुभितविबुधमुक्तहाहारवैश्वाचाहसीदच्युतः ॥ ५१ ॥
 
निर्मग्नमन्दरमणि द्युतिसम्प्रदिग्धा
निष्पेतुम्बरतले पयसः कणा ये ।
लग्नाश्चिराय लिकुचामलकाम्रमात्राः
तारास्त एव परिणेमुरिति प्रतीमः ॥ ५२ ॥
 
[commentary]
 
उत्पद्यमाना ये लोकाः तरलाः, कल्लोलास्तरङ्गाः तेषां यः कोलाहलः कलकलध्वनिः तस्य व्यतिकरः संपर्कः तेन । अथवा, स्खलदचलस्य उद्भवल्लोलकल्लोलानां चेति द्वयोर्यौ कोलाहलौ तयोस्सम्पर्कः तेनेति वा बोध्यम् । बधिराः अश्रोत्रेन्द्रियकल्पाः भ्रमन्तो घूर्णमानाः कूर्मनक्रद्विपा कच्छपग्राहगजाः । 'कूर्मे कमठकच्छपौ', 'ग्राहोऽवहारो नक्रस्तु', 'द्विरदोऽनेकपो द्विपः’ इति च अमरः । तेषां यानि क्रन्दितानि । भावे क्तः । रोदनान्याह्वानानीति वार्थः । 'क्रन्दितं रुदिताह्वाने' इति नानार्थमाला । तैः स्फुटितं कर्तरि क्तः । स्फोटं विदळनं प्राप्तमित्यर्थः । यत्कमलजस्य ब्रह्मणः अण्डं कोशः । 'पेशी कोशो द्विहीनेऽण्डम्' इत्यमरः । तदेव भाण्डं कटाहुरूपभाजनम् । 'सर्वमापनं भाण्डं पात्रामत्रे च भाजनम्' इत्यमरः । तस्य यः प्रचण्डस्वनः दुस्सहध्वनिः स इत्येवं यदुत्प्रेक्षणं ऊहः तेन क्षुभिताः क्षोभं तारळ्यं प्रापिताः, ये विबुधा देवाः तैः मुक्ताः कृता हाहारवाः हाहाध्वनयः तैश्च अच्युतः श्रीहरिः अहसीत् हासं चकारेत्यर्थः । को वा तत्त्वज्ञः पामरानमरान् दृष्ट्वा न हसतीति भावः ॥ निर्मग्नेति ॥ निर्मग्नः नितरामापातालं मज्जनमाश्रित इत्यर्थः । यो मन्दरः तस्य ये मणयः वज्रादयः तेषां द्युतयः । 'भाश्छविर्द्युतिदीप्तयः' इत्यमरः । ताभिस्सह प्रदिग्धाः व्याप्ताः, लिप्ता इति वाऽर्थः । पयसः क्षीरस्य । 'पयः क्षीरं पयोऽम्बु च’ इत्यमरः । ये कणाः लेशाः । 'लवलेशकणाणवः' इत्यमरः । अम्बरतले व्योम्नि । 'व्योम पुष्करमम्बरम्' इत्यमरः । निष्पेतुः उत्पतनं चक्रुरित्यर्थः । लिकुचामलकाम्राणि लिकुचामलकचूतफलानि प्रमाणं येषां ते तथा । 'प्रमाणे द्वयसज्दघ्नञ्मात्रचः (५.२.३७) इति मात्रच्प्रत्ययः । 'लकुचो लिकुचो डहुः' 'तिष्यफला त्वामलकी त्रिषु' 'आम्रश्चूतो रसालोऽसौ' इति च अमरः । चिराय चिरकालात् । 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः'